पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ [क्रियापाद: दक्षिणे विद्यातत्त्वे तेजोरूपाख्येऽघोरेण शिखया च घृतं, सौम्ये पुरुषतत्त्वे निवृत्तिकोष्ठे वामदेवेन शिरसा च रत्नतोययुक्तं गोमूत्रं, पश्चिमे कालतत्वेऽमृ- ताख्ये कोष्ठे सद्योजातेन हृदयेन च गोमयमापूरयेत् । एकद्वित्रिचतुष्पञ्चवारं मध्यादिषु जपेत् । कुशोदकं शिवगायत्र्या षड्वारमभिमन्त्र्य यथाक्रमं क्षीरा- दिषु पञ्च पञ्चसु प्रक्षिपेत् । तदनु दध्यादीनि मध्यपात्रे सुप्रतिष्ठिताख्ये क्षीरेण संयोजयेत् । एकीकृत्य मथित्वा सदाशिववदमिपूज्य स्थापयेत् । अथ तत्त्वसंख्यकुशकूर्चज्ञानखड्गं सम्पाद्य विकिरानायोजयेत् । “लाजचन्दनसिद्धार्थभस्मपुष्पकुशाक्षताः । हेतयोऽस्त्रेण सप्तैते विधातव्या विमिश्रिताः ॥”. इति ब्रह्मशम्भुः । “तिललाजयवा दूर्वाः सिद्धार्थाः कुसुमानि च । ईषच्चन्दनकल्केन मिश्रिता विकिराः स्मृताः ॥” इति मतङ्गे । “अस्त्रेणामन्त्र्य धान्यानि संक्षिपेचा स्त्रवत् परि | तत्पाताद् विघ्नबृन्दानि द्रवन्त्यत्र भयाद् भृशम् ॥” इति पराख्ये । इत्येषामेकप्रकारं विकिरान् सम्पादयेत् । उष्णीषं चाचार्यस्य, "उष्णीषं धवलं सूक्ष्ममाचार्यो धारयेत् सदा । षडङ्गुलोचं सुषमं प्रादक्षिण्याभिवेष्टितन् ॥ " इति पौष्करे । "मन्त्रसंहितया लब्धमुष्णीषं धवलं गुरुः | षडङ्गुलोचं शिरसा धारयेन्नृपपट्टवत् ॥” इति बृहत्कालोत्तरे । तद्वदुत्तरीयं च धवलं: यज्ञोपवतवद् धारयेत् । द्विजकन्ययावर्तितं नवगुणं सूत्रं पाशसंयमनाय सम्पाद्य शिखयालभ्य पात्रे निदध्यात् । मण्डलादू द्विगुणं सूत्रं नवतन्तुविनिर्मितम् । करणीत्युच्यते तद्वद् घटिका चातिपाण्डरा ॥ ३० ॥