पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अग्निकार्यविधिः] उत्तरार्धे पञ्चदशः पटलः । १३५ होतव्यम् । अत्र सशिवाग्नेः प्रमादाद् निर्वाणे सति त्रिरात्रमुपोषितोऽघोरं ज- पेत् । आज्यतिलैर्यथाशक्ति जुहुयात् । यद्यपि उद्वासितशिवशिवाभिनिर्वा- णेऽहोरात्रमुपोप्याघोरसहस्रजपहोमौ कृत्वा पुनराधाय जुहुयात् । नित्यकर्मणि स्रुक्स्रुवकर्मणि परिधिवेणीनां प्रक्षालनेन शुद्धिः, नित्य (कर्महो) मोपयोगित्वं च निर्दिष्टम् | सशिवेऽग्नौ भस्मादिकं निर्माल्यं न भवति । तदेवोद्वासितशिवे निर्माल्यमस्पृश्यं स्यात् । एवं शिवमग्निं च निरुध्य परिधिविष्टरान् देवांश्चो- द्वास्य कुंण्डस्य पुरतो वोत्तरे गन्धादिभिरिवा चरुशे (षे)ण बलिं दद्यात् । तत्र प्रागादिचतुर्दिक्षु रुद्रमातृगणयक्षेभ्योऽथैशानवायव्यान्तेषु ग्रहा- सुरराक्षसनागेभ्यस्तन्मध्ये नक्षत्रेभ्यः पुनर्नक्षत्रबाह्यतो रुद्रादीनामन्तरीशा- नादिकोणेषु राशिभ्यो विश्वदेवगणेभ्यः क्षेत्रपालाय दुर्गायै च तारादिस्वना- मभिः स्वाहान्तैर्बलिं दत्त्वा द्वितीयमण्डलके पूर्वादिदशदिक्षु यथाक्रममिन्द्रादि- भ्यस्तारादिस्वनामभिर्नमोन्तैर्बलिं दत्त्वा मण्डलबाह्ये सर्वतो विकिरन् ओं वायसादिभ्यः स्वाहेति दद्यात् । अथ बलिमन्त्रान् संहृत्य प्राङ्गणे कृतमण्डले ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः । सौम्याश्चैव तु ये केचित् सौम्यस्थाननिवासिनः ॥ ४ ॥ मातरो रौद्ररूपाश्च गणानामधिपाश्च ये । सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ ५ ॥ सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा । औं छं छः हुं फट् । अनेन बालें दत्त्वा हस्तपादौ प्रक्षाल्याचम्य प्रातिलोम्येन लिङ्गान्तिकेऽर्ध्य दत्त्वा भोगाङ्गानि प्राग्वत् संहृत्य लिङ्गे नियोज्य भगवन्तमुक्तप्रकारेण विसर्जयेत् । अथ शिवाश्रमी गृहस्थश्चेद् भोक्तुमिच्छन् चुल्लिहोमगृहबलिवैश्वदेव- दशबलीन् कृत्वा भुञ्जीत । तत्र पाकाग्रान्नं पात्रे प्रक्षिप्य चुल्ल्यामग्निं प्रज्वाल्य गोमयेनोपलिप्यार्घ्यजलैः परिषिच्य गन्धपुष्पाक्षतैरग्निं च वक्ष्यमाणदेवताश्चा- राध्यान्नमाज्यमिश्रं जुहोति । अग्नये सोमाय सवित्रे बृहस्पतये प्रजापतये विश्वे- भ्यो देवेभ्यः सर्वेभ्यो देवेभ्य: अग्नये स्विष्टकृते च प्रणवादिनमोन्तैः स- म्पूज्य स्वाहान्तै हुत्वार्थ्यजलैः परिषिच्य गृहदेवताभ्यो बलिमुपाहरेत् । तत्र चुल्ल्यां दक्षिणवामयोः धर्मायाधर्माय सन्धाभाण्डे संसार परिवर्तनाय उदक-