पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिवगुरुदेव पद्धतौ [क्रियापाद: अथाज्यतण्डुलव्रीहिसमिच्चरुभिर्यथोद्दिष्टैर्हविर्भिर्मूलेन जुहुयात् । तत्र शिवाद् दशांश मूर्तीनामङ्गानां च नैमित्तिकेष्वपि तत्र तत्र विहितैर्हविर्भिर्यथो- द्दिष्टं जुहोति । अत्र ब्रह्मशम्भुः --- "अग्नेर्वर्णांश्च गन्धांश्च शिखाः शब्दांश्च लक्षयेत् । सिद्ध्यसिद्धयोरभिव्यक्तौ भावितेनान्तरात्मना || स्निग्धः प्रदक्षिणावर्तः श्रुतिप्रच्छादितध्वनिः । नित्य मूर्ध्वगमोच्छिष्टान् संपिण्डितशिखः शुभः ॥ अप्रदीप्ते न होतव्यं सधूमे नाप्यनिन्धने । प्रदीप्ते लेलिहानेडग्नौ होतव्यं कर्मसिद्धये इति । तथाच ललिते. होतव्यं कर्मसिद्धये ॥" "शुक्लपीतारुणशिखों विद्युद्वर्णोऽथ पिङ्गलः । स्निग्धः प्रदक्षिणावर्तः कर्मसिद्धिकरोऽनलः ॥ कृष्णधूसरधूम्राभः कर्बुरो वाप्रदक्षिणः । रूक्षो वा विष्फुलिङ्गाढ्यः प्रोक्तोऽभिरशुभावहः || तच्छन्त्यै संहितामन्त्रैः शिवव्याहृतिभिस्तथा । 13 तिलाज्याभ्यां तथा हुत्वा शुभमेव फलं भवेत् ॥ इति । तत्तन्मुद्राभिस्तत्तज्जुहुयात् । नित्याद् द्विगुणं पर्वसु पूजाजपहोमान् कु- र्यात् । चरोरवदानत्रयं क्रमेण पृथक्पृथगभिधार्य स्रुचा मूलेन जुहुयात् । सकृन्मूर्त्यङ्गा(ना?नि) हस्तेनाथ प्रोक्षणीजलैरस्त्रेण परिषिच्य ताम्बूलं च निवेद्य प्रदक्षिणनमस्कारस्तुतिभिः प्रसाद्य भस्म चालभ्य क्षमस्वेत्युक्त्वा नाडीसन्धानं विसृज्य प्रणवहृदयवीजादिभिर्व्याहृतीभिर्हुत्वा मूर्त्यङ्गान्यस्त्रेणोद्धृत्याग्निस्थे शिवे यथास्थानं संयोज्य देवं चाग्नेर्हृदये सन्निरुष्य नैत्यिकमग्निं तस्मिन्नेव कुण्डे रक्षयेत् । अथवा प्रतिदिनमग्निं शिवं च सम्पूज्य संहारमुद्रया पूरकेण वहेर्म- न्त्रान् संहृत्य शिवमग्निमपि क्रमेण द्वादशान्तमानीय स्वहृदि सन्नियोजयेत् । शिवमग्निं स्वबिन्दुस्थाने हृदये वोद्वास्य प्रत्यहमग्निं जनयित्वा जुहोति । मार्गगमनादौ कुण्डाभावे गोमयेन गोचर्ममात्रं चतुरश्रमण्डलमुपलिप्य तत्र विशुद्धाभिः सिकताभिः स्थण्डिलं कृत्वा निरीक्षणादिभिः संस्कृत्याग्निमाधाय