पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१३२ ईशान शिवगुरुदेव पद्धतौ [क्रियापाद: र्मुखेषु चतस्रो जिह्वाः तिस्रो मध्यमे । ताश्च दीक्षाप्रतिष्ठादिषु सात्विकाः क्षुद्रेषु तामसाः काम्येषु राजसाः । तद् यथा + + + + + + + + + + + + + + + + 1 हिरण्या गगना रक्ताः स्युर्जिह्वाः सप्त सात्विकाः ॥ १ ॥ काली कराली च विलोहिता व मनोजवा चैव तु धूम्रवर्णा 1 स्फुलिङ्गिनी विश्वरुचिश्व जिह्वास्तमोगुणाः सप्त भवन्ति वह्नेः ॥ २ ॥ कराली घूमिनी श्वेता लोहिता भद्रलोहिता । सुवर्णा पद्मरागा च जिह्वाः सप्तेति राजसाः ॥ ३ ॥ तमेवंभूतं शिवाग्मिं संचिन्त्याथ वक्राभिघारणं कुर्यात् । ओं हां स- जातमूर्तये स्वाहा । ओं हां वामदेवगुह्याय स्वाहा । ओं हां अघोरहृदयाय स्वाहा । ओं हां तत्पुरुषवक्राय स्वाहा । ओं हां ईशानमूर्धाय स्वाहा इति यथावकमभिधार्यानन्तरमेव वकसन्धानं विदध्यात् । ओं हां सद्योजातमूर्तये वाम- देवाय स्वाहा । ओं हां वामदेवगुह्यायाघोरहृदयाय स्वाहा । ओं हां अघो- हृदयाय तत्पुरुषवक्राय स्वाहा । ओं हां तत्पुरुषवक्रायेशानमूर्धाय स्वाहा इति द्वन्द्वशो हुत्वा वक्त्राणि सन्धायाथेशानादिबीजपश्ञ्चकं प्रणवपूर्वकं सद्यान्तमुच्चा- र्याज्यं स्रुवेण गृहीत्वेशानतत्पुरुषाघोरवामदेवसद्योजातेभ्यः स्वाहेत्याग्ने कोणाद् वायुकोण तथा नैर्ऋत्यन्तं तस्माच्चैशानान्तमविच्छिन्नया घृतैकधारया हुत्वा वक्त्रैकीकरणं कुर्यात् । किञ्चान्येषां वक्त्राणां प्रधानवक्त्रेऽनुप्रवेशो बक्त्रैकी- करणम् । तच्च नित्यकर्मणि सद्यस्य प्रधानत्वादन्येषां तदनुप्रवेशो द्रष्टव्यः । यथा संहितायां - - " नित्यकर्मणि सद्यस्य मुख्यत्वमधिगम्यते । अन्यत्रोर्ध्वमुखं मुख्यं गुणत्वमितरस्य तु ॥ नैमित्तिके च काम्ये च यस्य वक्त्रस्य मुख्यता । तत्र तत्र समुद्दिष्टं तस्यैकीकरणं परैः ॥ तथा (मुमुक्षोर्दीक्षायां मुख्यं हीरामुखं स्मृतम् । दृष्टसिद्धयाप्तये पूर्वं दक्षिणं क्षुद्रकर्मसु ॥ 1. उत्तरं वामदेवाख्यं शान्तिकं पौष्टिकं तथा । " इति । प्रधानवक्त्रं नित्यकर्मणि सद्योजातं कुण्डप्रमाणं स्मृत्वा सद्योजाताय नम इत्यभ्यर्च्य ओं हां ईशानाय स्वाहेति पञ्चाहुतीहुत्वा ओं हां शिवाग्निहुताशनोऽसीति नाम कुर्यात् ।