पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अमिकार्यविधिः] उत्तरार्धे पञ्चदश: पटलः । १३१ ब्रह्मविष्णुरुद्रात्मतत्त्वाद्यधिपतीन् संस्मृत्योल्लिख्य प्रक्षाल्य दक्षिणतः प्रस्तरदर्भेष्वधोमुखं विन्यस्य तद्वत् सुवमपि संस्कृत्य स्रुचः समीपेऽधोमुखं दर्भेषु वि- न्यस्य स्रुचि शक्तिं स्रुवे शिवं च स्वनाम्नाभ्यर्च्य च त्रिसूत्र्यावेष्टितग्रीव क- र्मयोग्यौ भवतः । पुनः कुण्डाद् दक्षिणतो ब्रह्माणं कूर्चेष्विष्ट्वा कौबेर्यां दर्भासनं दत्त्वा ग्रन्थं प्रणीतापात्रं सपवित्रमद्भिरापूर्य सकुशाभ्यां पाणिभ्यामानासमुद्धृत्य ब्रह्म- णानुज्ञातः प्रणीतासने ओं हां वरुणोऽसीति विन्यस्य ओं हां यज्ञारिसूद- नाय विष्णवे नमः इति प्रणीतासु विष्णुमभ्यर्च्यथाज्यं यथोक्तमुक्तपात्रे गा- लितं हृदा निरीक्ष्यास्त्रेण प्रोक्ष्योत्तरेऽङ्गारेऽधिश्रित्य कुण्डोर्ध्ववह्निकोणे प्रताप्य स्वयं ब्रह्ममूर्तिः ओं हां ब्रह्मणे स्वाहेति कुशाग्रेणाज्यबिन्दुं हुत्वाथैशान्यां कुण्डो- परि कुशैः प्रताप्य स्वयं विष्णुमूर्तिः ओं हां विष्णु ? ष्णवे ) स्वाहेति कुशाग्रेणा- ज्यबिन्दु हुत्वाज्यं योनौ कुशेषु विन्यस्य हृदयेनाभिमन्त्रय दर्भद्वयं प्रज्वाल्य कवचेनाज्येऽभिद्योत्य त्रिष्कृत्वाथाग्नौ दर्भोत्सुकं प्रास्य हस्तौ प्रक्षाल्य तौ शुक्लकृष्णौ पक्षौ संस्मृत्य साङ्गुष्ठानामिकाभ्यां पवित्राये मूले च गृहीत्वात्मा- भिमुखं कवचेन त्रिरुत्प्लाव्य पवित्रं प्रक्षाल्य पुनरमेरभिमुखमुत्प्लाव्य प्रक्षाल्य पुनर्हृदयेनोभयत उत्प्लाव्य पवित्रमुन्मुच्य प्रक्षाल्याग्नौ प्रास्येदिति पवित्री - करणम् । अथ कुशानुद्योत्याज्ये नीराज्याग्नौ क्षिपेत् । अथ दक्षिणोत्तरयोराज्य- भागयोः पूर्वापरपक्षाविडापिङ्गलानाडियुक्तौ मध्ये च पर्वणी सुषुम्नां च सङ्क- रूप्य ओं हां अग्नये स्वाहा ओं हां सोमाय स्वाहा इति दक्षिणोत्तरयोराज्य- भागयोराज्यं स्रुवेणादायाग्नेर्दक्षिणवामनेत्र योहुत्वानन्तरं ओं हां अग्नीषो माभ्यां स्वाहेति ललाटनेत्रे जुहोति । अथाज्यं गृहीत्वा ओं हां अग्नये स्विष्टकृते स्वाहेति अग्नेर्मुखे जुहुयादित्यग्नेर्वत्रोद्घाटनं विधाय धेन्वामृताकृ- त्यास्त्रेण संरक्ष्य कवचेनावगुण्ठयेदित्याज्य संस्कारः । अयं विधिः पूर्वपक्षे । विशेषश्चापरपक्षे अग्नये सूर्यायाग्निसूर्याभ्यामिति नेत्रेषु जुहोति शेषं पूर्ववत् । अथ संस्कृत्याज्यबिन्दुं घृतक्षीरमध्वादिषु प्रक्षिप्य हृदयेनाभिमन्त्रयेत् । तानि च संस्कृतानि भवन्ति । अंथ शिवाग्निं सदा- शिववत् पश्चवक्रं जटामकुटं सप्तजिह्वं (प्री प्र) तिमुखं त्रिनेत्रमभयवरदशक्ति- स्वस्तिक चतुर्बाहुं सुगन्धमाल्याम्बरधरं दिव्याभरणं प्रसन्नाननं ध्यायेत् । चतु-