पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२४ ईशान शिवगुरुदेवपद्धतौ स्थण्डिले स्याद् विधिरयं शेषं पूर्ववदाचरेत् । तद्वत् सकललिङ्गेषु मार्त्तिकेषु पटादिषु ॥ १४० ॥ चित्रेष्वपि पुरस्तेषां निरम्बुकुसु (मान्य ? मं य) जेत् । हेमरौप्यमयानां च रत्नजानां च पूजनम् ॥ १४१ ॥ सकलानां प्रकुर्वीत सर्वं निष्कललिङ्गवत् । ताम्रारकूटकांस्यानामम्लाद्यैः शोधनं स्मृतम् ॥ १४२ ॥ नैमित्तिकेषु स्नपनं कुर्यान्नित्यं न कारयेत् । निरपेक्षविसर्गेषु प्रागाराध्याष्टपुष्पया ॥ १४३ ॥ विसृज्य प्रणवं न्यस्य तस्मिंश्चण्डेशमर्चयेत् । [क्रियापादः तमप्युद्वास्य मन्त्रांश्च हृत्पद्मे योजयेत् क्रमात् ॥ १४४ ॥ अयं विधिः सामान्यस्थण्डिल एव । परिगृहीतानां स्थिरचललिङ्गानां विसर्गः सापेक्ष एव । यथा ब्रह्मशम्भुः “निरपेक्षविसर्गस्तु लिङ्गे साधारणे मतः । परिगृहीतलिङ्गे तु सापेक्षः प्राक् प्रदर्शितः ॥ चललिङ्गेऽपि सापेक्षो निरपेक्षः स्थण्डिले सदा । " इति । अत्र पौष्करेऽपि - अपिच “परिगृहीतलिङ्गस्य स्थिरस्याथ चलस्य वा । निरपेक्षविसर्गे तु महान् दोषोऽभिधीयते ॥ प्रशस्तकालनक्षत्रमुहूर्तादौ विधानतः । लिङ्गे प्रतिष्ठा क्रियते मन्त्रमूर्तिविधानतः ॥ तदाप्रभृति तल्लिङ्गे वसत्यात्मैव यच्छिवः । तस्य प्रतिदिनार्चायामावाहनविसर्जने ॥ तत्पूजाप्रतिपत्त्यर्थं सम्मते ह्यौपचारिके । विश्वक्रियानुसन्धानं दृष्टं देहं शरीरिणः ॥ यथा जाग्रदवस्थायां तथास्यावाहनादिकम् । निवृत्ताखिलबाह्यार्थक्रिया चिन्मात्रशेषिता ॥