________________
१२३ ईशानशिवगुरुदेवपद्धतौ (सं) पूज्या क्षत्रजं पूर्वममृतीकृत्य वै जपेत् । मन्त्रमुच्चारयन्नमेकैकं कर्षयेच्छनैः ॥ ११९ ॥ मोक्षायाङ्गुष्ठतर्जन्य। भोगार्थी मध्यया युतम् । त्यक्त्वा कनिष्ठमन्याभिरङ्गुलीभिस्तु पुष्टये ॥ १२० ॥ त्रिविधस्तु जपः स स्यादुच्चोपांशू च मानसः । उच्चोऽधमफलस्तद्वन्मानसो मध्यसिद्धिदः ॥ १२१ ॥ उपांशुः श्रेष्ठफलदस्तस्मात् तेन जपेद् बुधः । [क्रियापाद, अत्र “मानसस्यातियत्नसाध्यत्वादू (भाष्य ? बाह्य) स्याधमसिद्धिरूपत्वा- दुपांशुः साधारणरूपत्वात् प्रयोज्यः । त्रिविधोऽपि न द्रुतो न विलम्बितो ना- स्पष्टाक्षरो न चान्यमनसा कर्तव्यः । नित्यनैमित्तिकेषु प्राङ्मुखोदङ्मुखेन वा एकचित्तेन कार्यः" इति भोजः । अत्र "असंख्या (तु ? तं) जपं होमं गृह्णन्त्यसुरराक्षसाः । अमौनिना चाशुचिना ततः पैशाचको जपः ॥" इति बृहत्कालोत्तरे । कल्पोक्तं तु जपं कृत्वा पूजामात्मानमेव च ॥ १२२ ॥ मन्त्रपूजादिसिद्ध्यर्थं शिवाय विनिवेदयेत् । अत्र भोजराजः - " ततो हृन्मन्त्रसम्पुटमस्त्ररक्षितं कवचावगुण्ठितं कुश पुष्प- चन्दनोन्मिश्रगन्धोदकचुलुकत्रये जपं पूजामात्मानं च त्रिमिः श्लोकैर्ममास्तु फलसाधनमिति देवपादयोर्निवेदयेद् बुभुक्षुः " इति । मुमुक्षुश्चेदिदं कर्म मास्तु मे देव ! बन्धकम् ॥ १२३ ॥ इति । ओम् । गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवति मे येन त्वत्प्रसादात् त्वयि स्थि (तम् ? ता ) ॥ १२४ ॥ यत्किञ्चित् कुर्महे देव ! सदा सुकृतदुष्कृतम् । तन्मे शिवपदस्थस्य हुं क्षं क्षपय शङ्कर ! ।। १२५ ।। शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् । शिवो यजति सर्वत्र यः शिवः सोऽहमेव तु ॥ १२६ ॥