________________
११० ईशान शिवगुरुदेवपद्धतौ दीपं च दीपपात्रस्थं दर्शयित्वेशगोचरे । अवतार्य यथोक्तं तद् भ्राम्यमासत्रिकं तथा ॥ ९७ ॥ शिवलिङ्गे शिवो यस्माच्छिवे विश्वं प्रतिष्ठितम् । दीपनीराञ्जनं तस्य जगच्छान्तिकरं स्मृतम् ॥ ९८ ॥ धूपे दीपे च नैवेद्ये बलौ होमे तथैव च । [क्रियापाद स्वाहाशब्दः प्रयोक्तव्यः शेषेषु स्यान्नमस्कृतिः ॥ ९९ ॥ उक्तानुक्तं च यत् सर्वं हृद्वीजेन विधीयते । निवेद्यं तु ततो दद्यादुपचारोदितं यथा ॥ १०० ॥ मूलेनैव तु देवस्य ब्रह्माङ्गानां तदर्धतः । पृथक् पात्रेषु वाङ्गानां नो चेदेकत्र वा स्मृतम् ॥ १०१ ॥ पानीयं च निवेद्यास्मै दद्याद्धस्तावसेचनम् ।
हस्तोद्वर्तनकं चैव दद्यादाचमनीयकम् ॥ १०२ ॥ ताम्बूलं मुखवासं चाप्यञ्जनं दर्पणं तथा ।
छत्रं च चामरे तद्वन्नृत्तं गीतं च वादितम् ॥ १०१ ॥ श्रीमत्पञ्चमहाशब्दैः स्तुतिः स्तोत्रैश्च मङ्गलैः । प्रकृत्या सहितं देव्या हृष्टं ध्यात्वा सदाशिवम् ॥ १०४ ॥ एवमादिभिरन्यैश्च तदा तमभिनन्दयेत् । अत्र " तदा तदभिनन्दयेत् । प्रकृत्या सहितं हृष्टमिति ब्रह्मशम्भुः । सौवर्णमुपवीतं च दूर्वाग्राण्यक्षतानि च ॥ १०५ ॥ पवित्रं नैत्यकं स्वेतन्मूलेनारोपयेच्छिवे । मूलं तत्वत्रयोपेतं स्वाहान्तमुच्चार्य पवित्रं लिङ्गमूर्धन्यारोपयेत् । यद्यूनमधिकं वाथ पूजायां स्खलितं च्युतम् ॥ १०६ ॥ तत् पावयेत् त्रायते च यस्मात् तस्मात् पवित्रकम् । प्रकृतेः परमीभावसम्पत्त्यर्थमनन्तरम् ॥ १०७ ॥ परमान्त्रिकमुच्चार्य प्रासादं पूर्ववन्न्यसेत् । प्ररोच्य च यथान्यायं मुद्रया प्रागुपात्तया ॥ १०८ ॥