पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

एकावरणार्चनाधिकारः] उत्तरार्धे त्रयोदशः पटलः । द्वागर्घ्ये चाप्यथाचामं वस्त्राण्याभरणानि च । पुनरासनमूर्त्यादिक्रमेणाराधयेद् विभुम् ॥ ८६ ॥ यथोक्तगन्धकल्केन समालिप्य सपीठकम् | हेमपट्टैश्व हारैश्च मालाभिः कुसुमैर्दलैः ॥ ८७ ॥ पुष्पप्रतिसराभिश्च तमिण्डाभिश्च भूषयेत् । प्रणवं च तथा मूलं शिवाय नम इत्यपि ॥ ८८ ॥ प्रतिद्रव्यं समुच्चार्य तत्तदारोपयेच्छिवे । ब्रह्माणि पञ्चवक्रेषु ब्रह्मभिः क्रमशोऽर्चयेत् ॥ ८९ ॥ ईशानादीनि वै शम्भोरङ्गेष्वङ्गानि तैर्यजेत् । ततः शिवस्य वक्रेभ्यो ब्रह्माण्याहृत्य तान्यथ ॥ ९० ॥ शिवाङ्गेभ्यस्तथाङ्गानि दीपाद् दीपानिवोज्ज्वलन् । प्रोक्तरूपादिकं ध्यायन् दलमध्येषु विन्यसेत् ॥ ९१ ॥ तत्कर्णिकायामीशानमै शान्यां पुरतो न्यसेत् । यथादिशं दलेष्वन्यानासीनांञ्छिवसम्मुखम् ॥ ९२ ॥ अग्निशरक्षोवाय्वाशादलेषु हृदयादिकम् । कवचान्तं तु विन्यस्य दिक्ष्वस्त्रं तु क्रमान्न्यसेत् ॥ ९३ ॥ `नेत्रं च पुरतः शम्भोस्तत्तन्मन्त्रेण विन्यसेत् । ध्यात्वा यथोक्तरूपाणि पाद्यार्घ्यैः पूजयेत् क्रमात् ॥ ९४ ॥ अत्र ब्रह्मशम्भुः इति । "नावकुण्ठनमेतेषाममृतीकरणं न च । स्नपनं दीपक्लृप्तिश्च न पृथक् चाङ्गकल्पना ॥" यथोक्तधूपं दद्यात् तु घण्टां वामेन नादयन् । देवाय पूर्वे तदनु ब्रह्माङ्गानां यथाक्रमम् ॥ ९५ ॥ राक्षसाश्वासुरा यक्षाः पिशाचा ब्रह्मराक्षसाः । नश्यन्ति घण्टाशब्देन धूपः सान्निध्यकारकः ॥ ९६ ॥ ११९