पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११८ ईशा शिवगुरुदेवपद्धतौ तारहद्वक्रमुच्चार्य मुद्रया सन्निधापयेत् । प्रणवं हृदयाघारावुक्त्वा तं निष्टुराख्यया ॥ ७३ ॥ निरोधयेत् पुनः पुष्पैरापूर्योद्यम्य चाञ्जलिम् । उक्त्वा नमःस्वधास्वाहावौषड्हृत्कवचानि तु ॥ ७४ ॥ पुष्पाञ्जलिं समायोज्य हस्ताभ्यामवकुण्ठयेत् । अङ्गानि च यथास्थानं स्वैर्मन्त्रैर्विन्यसेच्छिवे ॥ ७५ ॥ आवाहनादिकानां तु ये येऽर्थाः सम्प्रदर्शिताः । पटले तूपचाराख्ये तांस्तानत्र स्मरन् क्रमात् ॥ ७६ ॥ स्वैरर्चिर्भिर्यथा वह्निर्भानुभिर्भानुमान् यथा । समर्थे दुष्प्रधर्षश्च तद्वदङ्गैर्निजैः शिवः ७७ ॥ हृदयं तस्य सद्भावः शिरः सर्वेशिता गुणाः । वशित्वमपराधीनं यच्छखा सोपरि स्थिता ॥ ७८ ॥ . स्वभावगुप्तमन्येषां समर्थमविशेषतः । तेजः कवचसाधर्म्यात् तन्नाम्भा व्यपदिश्यते ॥ ७९ ॥ योऽसावप्रसहस्तस्य प्रतापोऽवारितः परैः । सोऽत्रमस्यति येनाशु दूरमन्तरदायकान् ॥ ८० ॥ इत्यपि ब्रह्मशम्भूक्ते स्मरणेनाङ्गकल्पनाम् । विधाय कुर्यान्मूलेनास्यामृतीकरणं तथा ॥ ८१ ॥ प्रोक्तं प्ररोचनं चापि तन्महामुद्रया भवेत् । विशेषार्ध्यं च पाद्यं चाप्याचामं हृदयेन तु ॥ ८२ ॥ नमोन्तं च स्वधान्तं च स्वाहान्तं च निवेदयेत् । पूर्वं पाद्याचमनीये दत्त्वा पश्चादयमिति केचित् । हृदैव बौषडन्तेन दत्त्वार्घ्यं पञ्चमूर्धसु ॥ ८३ ॥ दूर्वा पुष्पाक्षतव्रातं तच्छिरस्यधिरोपयेत् । सद्गन्धपुष्पधूपैश्च सम्पूज्य तु सदाशिवम् ॥ ८४ ॥ स्नानवेदिगतं देवं स्नापयेदुक्तमार्गतः । निर्मृज्य वाससा पाद्यं पद्भ्यां दत्त्वाथ मस्तके ॥ ८५. ॥ [क्रियापादः