पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

एकावरणाचैनाधिकार : ] उत्तरार्धे त्रयोदशः पटलः । इति । स्नपनानन्तरं न्यस्य पीठे वा मण्डलेऽथवा । तत्र स्थिरासनं देवं चललिङ्गस्थमर्चयेत् ॥” औ हां हां शिवमूर्तये नमः । पुष्पैरापूर्य चाञ्जलिम् ॥ ६६ ॥ अनेन मूर्तिलिङ्गे तु विन्यसेत् प्रोक्तलक्षणम् । ओं हां हां ज्ञानक्रियात्मिकायै ईश्वरमूर्तये नमः । ब्रह्मपञ्च (क) वक्रेषु चाष्टात्रिंशत् कलास्तथा ॥ ६७ ॥ विन्यसेत् स्वस्वमुद्राभिर्मूर्ती न्यासोदितक्रमात् । पुनः पुष्पाञ्जलिं बद्ध्वा तस्यां देवं सदाशिवम् || ६८ ॥ विद्यादेहं विभज्याथ तारहृन्मूलद्युतम् । विद्यादेहाय नत्यन्तमुक्त्वा मूर्ती तु विन्यसेत् ॥ ६९ ॥ पुष्पाञ्जलिमथोद्यम्य तारह्रद्वीजसंयुतम् । सद्यमूलेन सन्धाय प्लुतान्तं मन्त्रमुच्चरन् ॥ ७० ॥ हृदयाब्जात् परं ज्योतिर्ध्यायेन्नादसमं शिवम् । नीत्वोर्ध्व द्वादशान्ताब्जं शिवे संयोज्य निष्कले ॥ ७१ ॥ यथाह ब्रह्मशम्भु :- इति । "तावदुच्चारयेद् यावत् प्राप्तं निष्कलगोचरम् । तद्भावभावनाविष्टः प्रस्फुरद्रश्मिमण्डले ॥ बिन्दावभ्युदितं ध्यायन्नावाहनविधिं प्रति । तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते || न्यल्लक्षीकृते देहे " एवमावाहयेच्छम्भुमावाहन्या यथोदितम् । तारहृद्वामदेवैस्तु स्थापन्या स्थापयेद् विभुम् ॥ ७२ ॥ 190