पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११६ ओं हाम् । ईशानशिव गुरुदेवपद्धतौ धर्मं ज्ञानं च वैराग्यमैश्वर्यं चार्चयेत् क्रमात् ॥ ५९ ॥ आग्नेयादीशपर्यन्तं पीठपादान् यथोदितान् । अधमपि चाज्ञानमवैराग्यं दिशास्वपि ॥ ६० ॥ - अनैश्वर्यं च पीठेषु प्रागादिषु यजेत् क्रमात् । तारह्रद्वीजसंयुक्तचतुर्थ्यन्तैस्तु नामभिः ॥ ६१ ॥ पूज्यान्यावरणानि स्युः सामान्येनाविशेषिते । अधस्तान्मेखलायास्तदितीष्ट्वा ज्ञानसन्निधौ ॥ ६२ ॥ ऊर्ध्वच्छदं तथोर्ध्वस्थमैश्वर्याशागतं यजेत् । ओं हां पद्माय नमः । ओं हां कर्णिकायै नमः । इतीष्ट्वा केसरेष्वष्टौ क्रमाद् वामादिशक्तयः ।। ६३ ॥ पूज्याः सर्वा दिक्षु यथा सूपविष्टाः पुरोदिताः । ओं हां वामायै नमः । ओं हां मनोन्मन्यै नमः । [क्रियापादः नवमीं कर्णिकायां तु यजेच्छक्ति मनोन्मनीम् ॥ ६४ ॥ ओं हां सूर्यमण्डलाय नमः । ओं हां सूर्यमण्डलाधिपतये ब्रह्मणे नमः । इति पद्मदलेष्वग्राद् व्याप्तिं संचिन्त्य पूजयेत् । ओं हां सोममण्डलाय नमः । ओं हां सोममण्डलाधिपतये विष्णवे नमः । इत्यादि के सरायाद् वा व्याप्तिं ध्यात्वा यजेद् द्वयम् ॥ ६५ ॥ ॐ ह्रां वह्निमण्डलाय नमः । ॐ हां वह्निमण्डलाधिपतये रुद्राय नमः । इति तत्कर्णिकामध्ये बिम्बबिम्बाधिपौ यजेत् । ओं हां व्योममण्डलाय नमः । ओं हां शिवासनाय नमः | इति प्रोक्तासनः पूज्यः अत्र पौष्करे - " इति स्थिरं स्थिरे लिमे त्वासनं कल्पयेद् यदा । चललिङ्गे विशेषः स्यादासनं तच्चलाचलम् ॥