पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

एकावरणानाधिकारः] उत्तरार्धे त्रयोदशः पटल: । गड्डुकैर्वर्धनी कुम्भेण्यापूर्य सलिलं शुचिः । गर्भागारमथास्त्रेण समुद्घाट्य प्रसन्नधीः ॥ ५० ॥ सामान्यार्ध्य पुरो दत्त्वा गायत्र्या शिवसंज्ञया । ११५ + + + पुष्पैर्धूपं च + + + दत्त्वायै च पुनस्तया ॥ ५१ ॥ अपनीय तू निर्माल्यमावर्त्य ब्रह्मपञ्चकम् । पुष्पं सपदि तल्लिङ्गमस्तके विनिधाय तु ।। ५२ । स्थिरालङ्गे(चतु ?'तु च)दण्डाय दद्यादर्घ्यपुरःसरम् | चले जलादौ प्रक्षिप्य हृदयास्त्राम्बुसेकतः ॥ ५३ ॥ पिण्डिकां क्षालयेत् पूर्वं लिङ्गं च तदनन्तरम् । यथाह ब्रह्मशम्भुः --- इति । " यत्नेन क्षालयेल्लिङ्गं दक्षिणेनैव पाणिना । विशुद्धं सजलाधारं लिङ्गमस्त्राम्भसा पुरा ॥ सामान्यार्ध्यजलैः पश्चादभिषिञ्चेत् तु मन्त्रवत् ।” अशून्यमस्तकं लिङ्गमभिषेकार्चनादिषु ॥ ५४ ॥ गन्धपुष्पादिभिः कुर्यात् तद्धि सान्निध्यकारकम् । इत्थमात्माश्रयद्रव्यमन्त्रलिङ्गविशुद्धयः || ५५ ॥ कर्तव्याः पञ्च शैवानां नान्यथार्चनमिष्यते । ओं गं गणपतये नमः । अनेन वायुकोणे तु पूजयेद् गणनायकम् ॥ ५१ ॥ नैर्ऋते वारुणं पद्मे प्रोक्तरूपं गजाननम् । ओं गुं गुरुभ्यो नमः । गुरूनपि तथैशाने प्रोक्तरूपादिकान् स्मरन् ॥ ५७ ॥ सामान्यार्येण गन्धाद्यैर्निवेद्यान्तं तु शक्तितः । गुरूनित्यनेन गुरुं, परमगुरुं, परमेष्ठिगुरुं, पूज्यगुरुं, महापूज्यगुरुं चेति पञ्चगुरूनिति यावत् । ओं हाम् आधारशक्तये नमः । पीठाधः पूजनीयेति शक्तिः कूर्मशिलागता ॥ ५८ ॥ मृणाल बीजाङ्कुराभा ओं हाम् अनन्तासनाय नमः इति ब्रह्मशिलागता |