पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११४ यथा ब्रह्मशम्भुः इति । - ईशान शिवगुरुदेव पद्धतौ " तालत्रयमथास्त्रेण प्राकारं च समुद्गतम् । तद्बहिः खानित श्वभ्रं तनुत्राणेन कल्पयेत् ॥” यथोपचारपटले विशेषार्ध्यमिहोदितम् । [क्रियापादः आपूर्याभ्यर्च्य तत्तोयैः स्वशिरः प्रोक्षयेत् कुशैः ॥ ४१ ॥ सगन्धभस्मना कृत्वा त्रिपुण्ड्राणि यथाविधि । विशुद्धात्माश्रयस्त्वेवं द्रव्यशुद्धिं समाचरेत् ॥ ४२ ॥ यथोक्तपूजाद्रव्याणि शक्तिदृष्ट्यावलोक्य तु । कुशमूलेन वा कूर्चादयेतोयैस्तु वर्मणा ॥ ४३ ॥ अभ्युक्ष्यालभ्य तु जपेदजातेन हृदाथवा । गन्धं ततस्तु वामेन शिरसा वाम्बराण्यपि ॥ ४४ ॥ कृष्णेन वाथ शिखया भूषणानि राजोऽपि च । पुंसा वा वर्मणा वापि नैवेद्यं च फलादिकम् ॥ ४५ ॥ ईशेन वाथ गायत्र्या मुक्तपुष्पादिकं तु यत् । कङ्कटेन दधिक्षीरं घृतं तु शिखया पुनः ॥ ४६ ॥ शर्करां हृदयेनाथ शिखया क्षौद्रमम्बु च । मूलेन शिष्टं चैतेषु क्षिपेदम्बुशीकरान् ॥ ४७ ॥ ललाटे तिलकं कृत्वा चन्दनेनैव मूलतः । मूलेनारोपयेत् पुष्पं प्रोक्ष्य चाथ स्वमस्तके || ४८ ॥ द्रव्यशुद्धिः कृतैवं स्यान्मन्त्रशुद्धिरथोच्यते । यथा ब्रह्मशम्भुः - इति । “त्रिमात्रादिकमेणोर्ध्वं मन्त्रमुच्चारयेच्छनैः । यावन्निष्ठापदप्राप्तिस्तन्मन + + + +णः ॥ मन्त्रशुद्धिर्भवेदेवं शुद्धतत्त्वसमाश्रयात् ।” लिङ्गशुद्धिं ततः कुर्यादुपचारोदितक्रमात् ॥ ४९ ॥