पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

110 ईशानशिवगुरुदेवपद्धतौ उपवीतं च विभ्राणमाक्रान्तमणिपादुकम् । अग्रविन्यस्तसन्याङ्घ्रिं युद्धोपक्रमभीषणम् ॥ १०१ ॥ निखिलोपद्रवहरं स्मृतं + + + भञ्जनम् । [क्रियापादः अघोरास्त्रमिति ध्यायेद् यथोक्तरिवारकम् ॥ १०२ ॥ इत्थं मूलासनाङ्गानि गर्भद्वारेशलोकपैः । अस्त्राण्यावरणाख्यानि तेषां या मूर्तयः स्मृताः ॥ १०३ ॥ ताः सर्वा मुख्यशी ह्यत्र कथिताः पूजनादिषु । यथायथावत् स्मर्तव्या नित्यादिष्विह कर्मसु ॥ १०४ ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्नसारे उपरिभागे क्रियापादे आवरणादिमूर्तिपटलो द्वादशः । अथ त्रयोदशः पटलः । अथ सूर्याचनं वक्ष्ये शिवार्चाविघ्न शान्तिदम् । स्नात्वा सन्ध्यामुपास्याथ सन्तर्थ्यार्चनमन्दिरम् ॥ १ ॥ गत्वा धौताङ्घ्रिराचम्य तद्वाःस्थावाख्ययार्चयेत् । . ओं दण्डिने नमः । ओं पिङ्गलाय नमः । अन्तः प्रविश्योपविश्य कृत्वा तु प्राणसंयमम् ॥ २ ॥ अस्त्रशुद्ध करोऽङ्गानि हृदयादीनि विन्यसेत् । आत्मानं भास्करं ध्यायन् यथोक्तार्घ्य तु पूरयेत् ॥ ३ ॥ साष्टाङ्गं विन्यसेत् तत्र मूलाङ्गान्यर्चयेदपि । तत्प्रोक्षितात्मस्थानार्चाद्रव्यचक्रकुशैस्ततः ॥ ४ ॥ ओं गं गणपतये नमः । ओं गुं गुरुभ्यो नमः । इति दक्षिणतो विघ्नं गुरुं चोत्तरतो यजेत् । तत्प्रभूतासनं पीठं तारवर्गादिपूर्वकम् ॥ ५ ॥ स्वनाम्नाभ्यर्च्य तत्पादांश्चतुरोऽथ हरीन् यजेत् । विमलं सारमाराध्यं सुखं परमपूर्वकम् ।। ६ ।।