पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०६ ईशान शिवगुरुदेवपद्धतौ [क्रियापादः नन्दीशाख्यो मकुटी स्वर्णवर्णः किञ्चिद्दंष्ट्री सुमुखो दक्षिणस्थः । द्वारे शूली गदयावस्थितः स्याद् दैत्याकारो द्युतिमान् सत्रिनेत्रः ॥ ५२ ॥ मेघश्यामः शुभवेषः किरीटी रक्ताकल्पो धृतटस्त्रिनेत्रः । द्वाःस्थो वामे गदयावस्थितः सन् दंष्ट्री किञ्चित् स महाकालसंज्ञः ॥ ५३ ॥ निर्मासाङ्गो धृतशूलस्त्रिनेत्रः प्रेताकारः कृशदीर्घोदरास्यः । भृङ्गीशाख्यः परमेशप्रियोऽसौ याम्यद्वारे स भवेत् पश्चिमस्थः ॥ ५४ ॥ लाक्षावर्णो धृतटङ्काक्षमालो रक्ताल्पो गजवक्त्रस्त्रिनेत्रः । ह्रस्वाङ्गः स्यादहियज्ञोपवीती याम्यद्वारे खलु पूर्वस्थितोऽसौ ॥ ५५ ॥ कैलासाभो हिमचन्द्रांशु गौरस्तुङ्गः शृङ्गी बहलाङ्गः ककुद्मान् । धर्मः साक्षाद् वृषरूपी चतुष्पात् पश्चाद्वाःस्थः खलु कौबेर भागे ॥ ५६ ॥ षड्वक्रोऽस्माद् द्विगुणाक्षश्च दोर्भिर्युक्तो रक्तः शिखिवाहः किरीटी । रक्ताकल्पः शिखिशक्त्यक्षमालापूर्वा हेतीर्विदधद् बालवेषः ॥ ५७ ॥ कन्या देवी दधती नीलवर्णा चक्रासीषूंस्त्रिशिखं शङ्खखेटे । दोर्भिश्चापं वरदं सिंहवाहा रक्ताकल्पा धनदद्वारपूर्वे ॥ ५८ ॥ संरक्ताङ्गः परशुं चापि कुण्डी विश्रद् दोर्भिस्त्रिशिखं चाक्षमालाम् । चण्डेशः स्यान्मकुटी सत्रिनेत्रो दिव्याकारोऽरुणमाल्याम्बराढ्यः ॥ ५९॥ इ (न्द्रा ? न्द्रः)पीतो मकुटी युग्म बाहुहरैर्निकैः कटकैश्चाङ्गदाद्यैः । दिव्याकल्पो धृतवज्राशनिः स्यात् प्राच्यां देवैः सह चैरावतस्थः ॥ ६० ॥ तप्तस्वर्णद्युतिरग्निश्चतुर्भिदर्भिर्ब्भ्रद् वरदं चाभयं च । कुण्ड तद्वज्जपमालां च हैमीं हैमाकल्पः सुमुखो वृद्धवेषः ॥ ६१ ॥ ज्वालावेष्टितस्वमण्डलस्थो दक्षिणभागाश्रितया स्वाहया सहितो मेषारूढश्च । नीलाभ्राभो बलवान् दण्डपाणिर्दिव्याकारो युगबाहुः किरीटी । कृष्ण(कल्पो महिषं चाधिरूढः प्रेताधीशः खलु धर्मो यमः स्यात् ॥ ६२ ॥ 'चित्रगुप्तादिभिः स्वगणैः परिवृतश्च । रक्षोधीशो निर्ऋतिः कृष्णवर्णो दंष्ट्री खड्गी शितिमाल्याम्बराढ्यः । भीमाकारोऽपि च रम्याकृतिः स्यात् स्वाशासंस्थः पुरुषं चाधिरूढः || रक्षोगणैरावृतश्च ।