पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०२ ईशान शिवगुरुदेव पद्धतौ [क्रियापादः रक्ताकल्पो वरदं शक्ति शू(ले दोर्भि) बिभ्रद् युगसंख्यैर्गदां च । मेषारूढो ललिताङ्गः सुवेषो बन्धूकाभो भगवान् भूमिजः स्यात् ॥ ९ ॥ पीताकल्पो वरदं चापि खड्गं दोर्भिश्वर्माप्यथ विश्रद् गदां च । दिव्याकारो मकुटी भूषिताङ्गः सिंहारूढः शशिजः पीतवर्णः ॥ १० ॥ पीताकल्पो धिषणः पीतवर्णो दण्डाक्षसग्वरदान् कुण्डिकां च । दोर्भिर्बिभ्रत् कनकस्यन्दनस्थः स्यादुष्णीषी मणिभिर्भूषिताङ्गः ।। ११ ।। श्वेताकल्पो भगवान् हारगौरो दण्डाक्षखग्वरदान् कुण्डिकां च । दोर्भिर्बिभ्रद् रजतस्यन्दनस्थ: स्यादुष्णीषी भृगुजो भूषिताङ्गः ॥ १२ ॥ 'नीलाकल्पो घृतशूलोऽञ्जनाभः प्रासं विश्रद् वरदं चेषुचापे । गृध्रारूढः स्वरथे भूषिताङ्गो ध्येयो मन्दो भगवानर्चनादौ ॥ १३ ॥ कृष्णाकल्पः स्फुटभिन्नाञ्जनाभः शूली खड्गी घृतचर्माम्बराढ्यः । ध्वान्ताकारः सितदंष्ट्रोत्कटास्यो राहुनीलैर्हरिवारै रथे स्यात् ॥ १४ ॥ धूम्राकल्पा द्विभुजाः स्पष्टदंष्ट्रा धूम्राभासाः सगदास्ते वराढ्याः । रौद्राकाराः खलु गृभ्रासनस्था ध्येया नैका रथिनः केतवः स्युः ॥ १५ ॥ सर्वे महाः किरीटा दिभिर्भूषणैर्विभूषिता युवानो लोकयात्राप्रवर्तका भो- गैश्वर्यवरप्रदा ध्येयाः स्युः । सूर्यपूजामूर्तयः । प्रासादं यच्छिवशक्त्यात्मकं तच्छक्त्यन्तैः स्याद् वसुधाद्यैस्तु तत्त्वैः । 'शैवी मूर्तिः खलु देवालयाख्येत्यस्माद् ध्येया प्रथमं चाभिपूज्या ॥ १६ ॥ शान्तिद्वारं प्रथमं पूर्वतः स्याद् विद्या याम्ये त्वथ पश्चान्निवृत्तिः । कौबेरं यत् तदपि स्यात् प्रतिष्ठा शान्तिद्वारं खलु नित्येषु शस्तम् ॥१७॥ मातङ्गास्यो धवलः पङ्कजस्थो द्वारे दन्ती सृणिपाशहस्तः । ध्येयस्तुन्दी मकुटी दक्षिण स्याद् रक्ताकल्पः शशिमौलिस्त्रिनेत्रः ॥ १८ ॥ तद्वद् वाणी स्फटिकेन्दुप्रकाशा मुद्राक्षसकलशग्रन्थपाणिः । शुभ्रकल्पा शशिमौलिस्त्रिनेत्रा वामे ध्येया सितपद्मोपविष्टा ॥ १९ ॥ नन्दीशमहाकालौ द्वारपालावरणे वक्ष्येते । गङ्गा तुङ्गस्वतरङ्गाच्छवर्णा दिव्याकारा युवतिर्दक्षिणे स्यात् । गौराकल्पा द्विभुजाम्भोजहस्ता बन्द (न्योन्या) न्यस्फुटवामैकपाणिः ॥२०॥