पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९८ इत्यजिते । ईशानशिवगुरुदेवपद्धतौ जटी मुण्डी शिखी वापि शस्तदेशसमुद्भवः ! शिवशास्त्रार्थतत्त्वज्ञः श्रुतवृत्तान्वितो द्विजः ॥ शिवमेवाश्रितो नित्यं वाङ्मनः कायकर्मभिः । आचार्यः स इहोद्दिष्टः शिवदीक्षादिकर्मसु ॥" [क्रियापादः "अनूचानः प्रसन्नात्मा शिवदीक्षाभिषेचितः । शिवागमज्ञो मतिमाञ् शिवपूजापरायणः ॥ रुद्राक्षमालां बिभ्राणस्त्रिपुण्ड्राङ्कितविग्रहः । विशुद्धदेश कुलजः शीलाचारसमन्वितः ।। वेदशास्त्रार्थतत्त्वज्ञो ज्ञानवान् गुरुरुच्यते । " इति सान्तानिके । " कृष्णवर्णो मृगो यस्मिंश्चरतीह स्वभावतः । तं देशं यज्ञियं विद्याद् यश्च विप्रैराधिष्ठितः ॥ तद्देशकालसम्भूतस्त्वाचार्यः शास्त्रसम्मतः । " इति सर्वज्ञानोत्तरे । "शुभदेशोद्भवः श्रीमान् पदवाक्यप्रमाणवित् ॥ शिवशास्त्रार्थसन्तुष्टः सर्वत्र करुणानिधिः । चीर्णाचार्यव्रतो मन्त्री प्रसन्नहृदयाननः ॥ लिङ्गादिलक्षण ज्ञाननिपुणः कर्मसन्ततौ । अहीन सन्ततिर्यस्तु ब्रह्मचारी गृही तथा ॥ सान्तानिको गृही श्रेष्ठः समयाचारपालकः । भौतिको ब्रह्मचारी यः पुरा पश्चाद् गृही भवेत् || स भौतिको गृहस्थः स्यात् तज्ज्ञैराचार्य उच्यते । सोऽपि श्रेष्ठः तत्सुतश्च भवेत् सान्तानिको गुरुः ॥ देवताव्याप्तितत्त्वज्ञः षड्विधाध्वविशारदः । शुभाशुभनिमित्तज्ञोऽप्यथवा विस्तरेण किम् ॥