पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९९ इति वीरे । ईशानशिवगुरुदेवपद्धतौ " कुमारी हिमवन्मध्ये स्वतः कृष्णमृगान्विते । (देशे ) जातस्तु यो विद्वानाचार्यत्वं द्विजोऽर्हति ॥” "आर्यावर्तोद्भवोऽन्यो वा ककाराष्ट्रकवर्जितः । कुलीनो निपुणो दक्षो विनीतः प्रियदर्शनः || शैवसिद्धान्ततत्त्वज्ञः प्रतिष्ठातन्त्रपारगः ।" इति प्रतिष्ठा समुच्चये । अत्र योगशिवपद्धतौ- "मध्यदेशे कुरुक्षेत्रलाटोज्जयिनिसम्भवाः ॥ अन्तर्वेदिप्रतिष्ठाना आवन्त्याश्च गुरूत्तमाः । गौडा : सुह्योद्भवास्तैरः मागधाः केरलास्तथा ॥ कोसलाश्च दशार्णाश्च गुरवः सप्त मध्यमाः । कर्णाटक महाराष्ट्रकच्छनीरोद्भवास्तथा ॥ कलिङ्गाश्चैव लाम्बाकाः काम्बोजाश्चाधमाः स्मृताः । काञ्चीकाश्मीर सौराष्ट्र पाण्ड्यान्यविषयोद्भवाः || कावेरी कोणोद्भूता निन्दिता गुरवः स्मृताः । कुण्डादयश्च रोगार्ता निन्द्याः स्युर्देशजा अपि ॥ भ्रष्टव्रताच्च पतितादुत्पन्नो यो नराधमः । भस्माङ्कुराह्वयौ त्याज्यौ निन्दितौ सर्वकर्मसु ॥ अन्यलिङ्गी तु तत् त्यक्त्वा पुनः शैवे तु दीक्षितः । सोsपि निन्द्यः प्रतिष्ठादौ देशिकत्वं च नार्हति ॥ शैवदीक्षामनासाद्य शास्त्रमात्रप्रपाठकः । स्वयम्भूर्नाम निन्द्योऽसौ शैवकर्मसु गर्हितः ॥ सन्न्यासिनोऽङ्गहीनाश्च विरूपा मठभोजनाः । +++ श्चैव कुब्जाद्या नास्तिकाश्चैव निन्दिताः ॥ कर्णाटककलिङ्गाख्य कच्छकाश्मीरवासिनः । कोङ्कणाः करहाटाश्च काम्बोजाः कामरूपिणः ।। [क्रियापादः