सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

સ ईशानशिवगुरुदेवपद्धतौ सप्तमे त्वथ पैशाचे भाषान्नं कृसरं मधु । हारिद्रचूर्ण तैलाढ्यं सामिषं तु प्रदापयेत् ॥ ४० ॥ अन्यथा केचिदाचार्याः प्राहुर्वै गणसप्तकम् । तचात्र कथ्यते भूताः पितरोऽपि च गुह्यकाः ॥ ४१ ॥ नागा ब्रह्मा शिवो विष्णुर्देवताः सप्तरात्रिषु । प्रणवादिनमोन्तैः स्वैर्नामभिर्दापयेद् बलिम् ॥ ४२ ॥ प्रथमे भूतरात्रे तु भूतं क्रूरेण दापयेत् । तिलैस्तण्डुलमिश्रेस्तु पितृरात्रे द्वितीयके ॥ ४३ ॥ तृतीये नालिकेराम्भः शाल्यन्नैर्यक्षरात्रके । सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके ॥ ४४ ॥ सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे । सापूपान्नेन साज्येन षष्ठे शैवे तु दापयेद् ॥ ४५ ॥ गुलौदनेन साज्येन सप्तमे वैष्णवे बलिः । यदा नव स्युर्दिवसाः पायसं कृसरं क्रमात् ॥ ४६ ॥ उद्दिष्टदैवतगणमुद्दिष्टबलिनार्चयेत् । न कश्चिदङ्कराण्यन्यो निरीक्षेत कदाचन ॥ ४७ ॥ आचार्य एव प्रविशेत् तच्छिष्यो वा तदाज्ञया । आरूढैरङ्कुरैः कर्तुर्निर्दिशेत् तु शुभाशुभम् ॥ ४८ ॥ (क्रियापादः श्यामैः कृष्णैरङ्कुरैरर्थहानिं तिर्यमूढैर्व्याधिमालोहितैश्च । कुब्जैर्दुःखं (तत्प्र ! त्वप्र ) रूढैर्मूर्ति च ब्रूयाद् भग्नेः स्थानदेशे ष्टहानिम् ॥ शुक्लैः पीतैः सम्प्ररूढैः सुपूर्णैः शीघ्रोत्पन्नैश्चारुभिर्व्यायतैश्च । लक्ष्मीं पुष्टिं चेष्टसिद्धिं समग्रां कर्ता विन्देदङ्कुरैर्मङ्गलं च ॥ ५० ॥ आचार्यस्तत्राङ्कुरेष्व प्रशस्तेष्वालक्ष्यास्मिन् शान्तिकं कर्म कुर्यात् । मूले नाङ्गैर्ब्रह्मभिश्चाथ हुत्वा व्याहृत्यन्तं शोभनं स्यात् तिलैश्च ॥ ५१ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे अङ्कुरार्पणपटलो दशमः ।