सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८२ ईशानशिवगुरुदेवपद्धतौ चतुभिंर्जगतीं कुर्यात् कुमुदं त्रिभिरेकतः । कम्पं कण्ठं त्रिभिस्तद्वत् कम्पमेकेन पट्टिकाम् ॥ २७ ॥ त्रिभिरंशैस्तथांशेन वाजनं वर्धमानके । सकृत्यंशे तु पीठोचे जन्मसार्धीशतो भवेत् ॥ २८ ॥ अंशेन पद्ममर्धेन कम्पं वमं च पञ्चभिः । दलमे धृत्यंश देनाब्जं तु कारयेत् ॥ २९ ॥ वृत्तं चतुर्भिस्त्वंशेन पद्ममर्धेन कम्पकम् | त्रिभिः कण्ठं तथांशेन वाजनं त्वथ भागतः ॥ ३० ॥ निद्रां तु पट्टिकां शादर्धात् पद्माज्यभृद् भवेत् । लक्ष्मीसुन्दरसंज्ञं तु पीठमेवं प्रसिध्यति ॥ ३१ ॥ पीठोच्चे षोडशांशेऽश्विभूतदत्र श्रुतिद्वयैः । एकेन च जगत्यब्जवेत्रपङ्कजपट्टिका ॥ ३२ ॥ तथाज्यधारिणीं कुर्याद् विष्णुसंमीलने क्रमात् । अष्टादशांशे पीठोच्चे भवेत् सार्धंशतः खुरम् ॥ ३३ ॥ सार्धत्रयेण जगती सार्धेनाब्जं धृगर्धतः । पट्टं चार्धेनोपपट्ट कण्ठस्त्र्यंशस्तदूर्ध्वतः ॥ ३४ ॥ उपपट्टं भवेद पट्टमर्धेन चोपरि । द्वयंशं वाजनमुद्दिष्टम पट्टाज्यभृद् भवेत् ॥ ३५ ॥ पद्मभद्रामदं पीठं विज्ञेयमतिशोभनम् । घृत्यंशे पीठतुङ्गे तु घृतवार्यर्धतः स्मृताः ॥ ३६ ॥ अर्धेन कम्पः सार्धाभ्यां भागाभ्यां वाजनं भवेत् । पट्टोपपट्टावर्धाभ्यां कण्ठोंऽशौ पट्टमर्धतः ॥ ३७ || उपपट्टोऽर्धमष्टाश्रः कुम्भः स्याच्चतुरंशतः । पञ्चांशा जगती तद्वत् सार्धोशेन खुरं भवेत् ॥ ३८ ॥ एतत् समाङ्गभद्राख्यं पीठं भवति शोभनम् । अत्यष्टयंशे तु पीठोच्चे खुरं भागेन वप्रकम् ॥ ३९ ॥