मेंहसुन्दरादिद्वादशपीठानि] उत्तरार्धे एकोनचत्वारिंशः पटलः । अथ वेसरलिङ्गस्य ड्यष्टांशे परिणाहके । मुख्यं हि तत्समं व्यासं जगत्यशैस्तथाघमम् ॥ १५ ॥ विष्णुतुल्योच्छ्रितं तत् स्याच्चतुर्थांश|धिकं तु वा । सर्वेषामपि लिङ्गानां पीठोच्चादवशेषितम् ॥ १६ ॥ ब्राह्मं लिङ्गस्य मूलं यत् तत् स्यात् पादशिलागतम् । पीठमूलस्यं विस्ताराद् वसुनन्ददिगंशकैः ॥ १७ ॥ हीनपीठाग्रविस्तारो हीनमध्ये तथोत्तमे । नागरादित्रयपीठम् । अथ पौठसंस्थानानि कथ्यन्ते ww चतुरश्राणि वस्वश्रवृत्तानीति त्रिभेदतः ॥ १८ ॥ पीठानि स्युः क्रमात् तेषां प्रथमं मेरुसुन्दरम् । वर्धमानं द्वितीयं स्याल्लक्ष्मीसुन्दरमप्यथ ॥ १९ ॥ विष्णुसम्मिलनाख्यं च पद्मभद्राह्वयं ततः । पीठं समाङ्गभद्राख्यं रुद्रकान्तं ततः परम् ॥ २० ॥ सोमकान्तं च सर्वाङ्गभद्राख्यं श्रीकरं तथा । पुष्टिवर्धनसंज्ञं च सर्वसौम्यं ततः परम् ॥ २१ ॥ एवं द्वादशभेदानां पीठानां लक्ष्म कथ्यते । पीठं निष्कललिङ्गानां विज्ञेयं सर्वतः समम् ॥ २२ ॥ आयतं प्रतिमानां स्यात् सकले वार्धचन्द्रकम् । चतुर्दशांशे पीठेोचे भागात् स्यान्मूलपट्टिका ॥ २३ ॥ पद्मं त्रिमिधूंगशमनाब्जं ततो भवेत् । वृत्तं ग्रंशं पुनः पद्ममर्धमर्धेन कम्पकम् ॥ २४ ॥ सार्धद्व्यशेन कण्ठः स्यादर्धेनोर्ध्वाम्बुजं स्मृतम् । अर्धेन कम्पो व्यंशात् स्यात् क्रमेणैवोर्ध्वपट्टिका ॥ २५ ॥ कम्पाज्यधारिण्यंर्घेन स्यादेवं मेरुसुन्दरम् । अष्टादशांशे पीठांचे जन्मद्वयंश मिहोदितम् ॥ २१ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८४
दिखावट