उत्तराधे एकोनचत्वारिंशः पटलः । चतुर्भिय दलं सार्धादर्ध कम्पो घृगंशकम् । कम्पोऽर्धमर्धेनाम्भोजं वृत्तं द्वावर्धतो दलम् ॥ ४० ॥ पट्टमर्धेन कण्ठोंऽशः कम्पो ऽर्घेनार्धमम्बुजम् । शं वाजनमर्धेन पद्म क्षेपणमर्धतः ॥ ४१ ॥ एताद्ध रुद्रकान्ताख्यं पीठमुक्तं सुशोभनम् । अतिघृत्यंशपीठोच्चे भागो भूगतमंशकौ ॥ (१) ४२ ॥ वयं महाब्जं वेदांशैर्घृगर्ध वेत्रमंशतः । अबै गलं चार्घमब्जं वृत्तमत्यर्धतो भवेत् ॥ ४३ ॥ अर्धेनोर्ध्वदलं कुर्याद् वेत्रमंशो घृगर्धतः । अंशेन वत्रं साधाशौस्त्रभिरूर्ध्वाम्बुजं भवेत् ॥ ४४ ॥ अध्यर्ष घृतभृच्चेति सोमकान्तमुदीरितम् । नागरादित्रयस्यापि तुल्यमेतत् । पीठोच्चे षोडशांशे तु भागाभ्यां मूलपट्टिका ॥ ४५ ॥ महापद्मं तु वेदांशैघृगनांशतो गलम् । अर्धेन पद्म वृत्तं तु भागेनार्घेन पङ्कजम् ॥ ४६ ॥ घृगर्धमूर्ध्वपद्मं तु चतुर्भिरथ पट्टिका । द्वयंशेन घृतभृत् प्रोक्तमेतत् सर्वाङ्गभद्रकम् ॥ ४७ ॥ सर्वलिङ्गेषु समानमिदम् । पीठोच्चे बोडशांशेऽश्विशरार्धेकार्धसागरैः । नेत्रेन्दुभिर्जगत्यब्जघृग्वेत्रं धृक् च पङ्कजम् ॥ १८ ॥ पट्टिका चाज्यभृच्चेति श्रीकरे स्याद् यथाक्रमम् । एकस्मिन्नेव सार्धंशाज्जगत्यर्धेन कम्पकम् ॥ ४९ ॥ पट्टिकाधः स्ववेदांशात् सकम्पा पुष्टिवर्धने । पीठादये षोडशांशे खुरं द्व्यंशमथार्धतः ॥ ५० ॥ क्षेपणं सार्घवेदांशैः पद्ममर्धेन कम्पकम् । घृगधैँ वज्रमेकं स्यादूर्ध्वाजं वेदभागतः ॥ ५१ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/८६
दिखावट