ईशानशिवगुरुदेवपद्धतौ पुष्पाञ्जलौ सुसंक्रान्तां हंसमुच्चारयन् प्लुतम् । आनीय ब्रह्मनाङ्या तां मूर्तिहृत्पङ्कजे न्यसेत् ॥ ३६॥ स्थापनं सन्निरोधं च रोचनं चावकुण्ठनम् | अमृतीकरणं चाविधायाध्यै प्रदाय तु || ३७ ॥ षडध्वभावनां कृत्वा विद्याकुम्भेऽष्टकेन च । निद्रास्त्राभ्यां नाभिषिच्य यजेददिभिः क्रमात् ॥ ३८ ॥ [क्रियावाद: तद्यथा स्नात्वा गणेशमभ्यर्च्य सकलीकृतावेग्रहः । सामान्यार्ध्येण तद्द्वाःस्थौ विनक्षेत्रपती यजेत् ॥ ३९ ॥ गङ्गां च यमुनां प्राग्वद् द्वारलक्ष्मी तथोपरि | अस्त्रं क्षिप्त्वा प्रविश्यान्तहल्यां विनिधाय तत् ॥ ४० ॥ पविष्टोऽर्ध्य मर्चयेत् । वास्तुशासनावी शुद्धी: पञ्च विधायाथ तिलकी पुष्पशेखरः || ४१ ॥ आधारशक्ति पृथिवी विद्यां सिंहासनाकृतिम् | कृतत्रेतादिकान पादान् सिंहाकारान् विदिग्गतान् ॥ ४२ ॥ रजस्तमश्च सत्वं च क नालंच पङ्कजम् । सूर्यादिमण्डलाधीशान ब्रह्मादीज् छदनादिषु ॥ ४३ ॥ मेरुं तत्कर्णिकायां च पत्रद्वादशके गिरीन् । दिक्ष्वेकैकं च कोणषु पूजयेत् केसराह्वयान् || ४४ || प्राग्दले मन्दरगिरिदक्षिणे गन्धमादनः | विपुलः पश्चिमदले सुपार्श्वश्चोत्तरच्छदे ॥ ४५ ॥ हिमवान् हेमकूटश्च निषधो माल्यवांस्तथा । कैलासश्चैव नीलश्च श्वेतशृङ्गीच तान् यजेत् ॥ ४६ ॥ प्रोक्तमार्गेण वाङ्मूर्ति विद्यादेहं यथापुरम् । देवीं चावाह्य मूला: स्थापनाथं विधाय तु ॥ ४७ ॥ अर्ध्यायैस्तु निवेद्यान्तैरुप वारैर्यजेत् क्रमात् । अङ्गानि केसरेवाशक्तिद्वादशकं ततः ॥ ४८ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२५९
दिखावट