पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः


इन्द्रस्य हारयणानि त्रीणि । हारायणानि वा ॥३.३.१॥

शग्ध्यूष शचीपते (सा. २५३) इत्यत्र सामत्रयमुत्पन्नम् । शग्भ्यूपू (ग्राम. ७.३.२५३.१) इति मन्द्रादिकं प्रथमम् । शग्ध्यूष्वौहोइशचीपताइ (ग्राम. ७. ३. २५३. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । शग्ध्यषुशची (ग्राम. ७.३.२५३.३) इति चतुर्थतृतीयादिकं तृतीयम् । एतानि वीणि इन्द्रस्य हारयणानि । यद्वा हारायणानि ॥१॥

वाम्राणि त्रीणि ॥३.३.२॥

या इन्द्र भुज आभर (सा. २५४) इत्यत्र सामत्रयमुत्पन्नम् । [याहोइ । इंद्रा] (ग्राम. ७.३. २५४.१) इति तृतीयद्वितीयादिकं प्रथमम् । याइन्द्रभुजाभाराः (ग्राम. ७.३.२५४.२) इति मन्द्रमन्द्रादिकं द्वितीयम् । याइन्द्रभुजआभरः। उहुवाहाइ (ग्राम. ७.३. २५४.३) इति चतुर्थ- मन्द्रादिकं तृतीयम् । एतानि वीणि वाम्राणि ॥२॥

वरुणसामानि त्रीणि ॥३.३.३॥

प्रमित्राय प्रार्यम्णे (सा. २५५) इत्यत्र सामत्रयमुत्पन्नम् । प्रमि- त्रायमाहाउ (ग्राम. ७.३.२५५.१) इति मन्द्रादिकं प्रथमम् । प्रमित्राय- प्रौहोवा (ग्राम. ७.३.२५५.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । प्रमि. लायमार्यम्णेया। ओवा (ग्राम. ७.३२५५.३) इति मन्द्रचतुर्थादिकं तृतीयम् । एतानि त्रीणि वरुणसामानि ॥३॥

प्रजापतेश्च वषट्कारणिधनम् ॥ ३.३.४॥

अभि त्वा पूर्वपीतये (सा. २५६) इत्यत्र सामैकमुत्पन्नम् । अभित्वा (ग्राम. ७.३.२५६.१) इति चतुर्थतृतीयादिकं प्रजापतेश्च वषट्कारणिधनम् एतन्नामधेयकम् ॥ ४ ॥