पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० आर्षेयवाह्मणम्

धृषतो मारुतस्य साम ॥३.३.५॥

प्रव इन्द्राय बृहते (सा. २५७) इत्यत्रैकं साम । प्रवइन्द्राय- वृहते । प्रयाः (ग्राम. ७. ३. २५७.१) इति चतुर्थमन्द्रादिकं मारुतस्य धृषनः साम ॥ ५॥

संश्रवसो विश्रवसः सत्यश्रवसः श्रवसः इति वाय्यानां चत्वारि सामानि । इन्द्रस्य वा संशानानि ॥ ३.३.६ ॥

संश्रवसो विश्रवसः सत्यश्रयमः श्रवस इतिनामधेयानां वाय्याना- मृषणां क्रमेण चत्वारि सामानि । तत्र सान्त्वहिन्ध (ग्राम. ७.३. २५८.१३) इत्यादि संश्रयम इत्यन्तम् । सांत्यारिण (-१) इत्यादि विश्वस इत्यन्तम् । सांत्वानित । क्षुः (-१०) इतिप्रभृति सत्यश्रवस इत्यन्तम् । एतानि त्रणि, सांत्याशिश (ग्रान ७. ३. २५८.२) इति उपक्रम्य वृहदिन्द्र यगायता इत्यादि श्रवस इत्यन्तं चतुर्थम् । एतानि चत्वारि वाय्यानामृषणां मानानि । अथवा इन्द्रस्य वा संज्ञानानि एतन्नामधेयानि ॥ ६॥

वाम्रे पूर्वे वासिष्ठं तृतीयम् । वासिष्ठे वा पूर्वे वाम्रं तृतीयम् ॥ ३.३.७॥

इन्द्र क्रतुं न आ भर (सा. २५९) इत्यत्र सामत्रयमुत्पन्नम् । इन्द्राऔहो (ग्राम. ७. ३. २५०.१) इति द्वितीयक्रुष्टादिकं प्रथमम् । इन्द्र- क्रतूनआभग (ग्राम. ७. ३.२५९.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते पूर्व आये द्वे वाने। इन्द्रक्रतुं आ (ग्राम. ७. ३. २५९. ३) इति तृतीयचतुर्थादिक तृतीयं साम वासिष्टम् । अथवा पूर्वे सामनी वासिष्ठे । तृतीयं वाम्रा ॥ ७॥