द्वितीयः खण्डः
वैखानसं च पौरुहन्मनं च । प्राकर्ष वा ॥३.२.१॥ नकिष्टम् (सा. २४३) इत्यत्र सामद्वयमुत्पन्नम् । नकिष्टांकर्मणानशात (ग्राम. ६.२.२४३. ) इति मन्द्रद्वीयादिकमाद्य वैखानसनामधेयम् । [वैखानसा नामर्षयः ] तत्संबन्धि वैखानसं भवति। वैखानसा वा ऋषय इन्द्रस्य प्रिया (ता. वा. १४.५.७) इत्यादिब्राह्मणमनुसंधेयम् । नकिष्टं कर्मणा (ग्राम. ६.२. २४३. २) इति तृतीयचतुर्थादिकं द्वितीय साम पौरुहन्मनम् । पुरुहन्मा वा एतेन वैखानसोऽजसा स्वर्ग लोकमपश्यत् (ता. ब्रा. १४. ९. २९) इति ब्राह्मणमनुसंधेयम् । अत्र विकल्प: वा अथवा प्राकर्षम् । एतद् द्वितीय प्राकर्षम् वा ॥१॥
सात्यम् ॥३.२.२॥
य ऋते चित् (सा. २४४) इत्यत्र एकं साम । यऋताइची (ग्राम. ६. २. २४४.१) इति मन्द्रद्वितीयादिकं सात्यनामधेयम् ॥ २ ॥ चत्वारि भारद्वाजानि । कण्वबृहद्वैषां द्वितीयम् ॥ ३ ॥ आ त्या सहस्रमा शतम् (सा. २४५) इत्यत्र चत्वारि सामा- न्युत्पन्नानि । आत्वासहा (ग्राम. ६.२.२४५.१) इति मन्द्रादिकम् । औहोआवासहाए (ग्राम. ६.२ २४५.२) इति मन्दमन्द्रादिकम् । आत्यासहस्रमाशतमा (ग्राम. ६.२.२४५.३) इति चतुर्थमन्द्रादिकम् । आत्वासहस्रमा । शतमा (ग्राम. ६.२.२४५.४) इति तृतीयचतुर्थादिकम् । एतानि चत्वारि सामानि भारद्वाजानि। वा अथवा एषां चतुर्णा मध्ये द्वितीय कण्यवृहत्संज्ञम् ॥ ३॥
वाम्राणि त्रीणि ॥ ३.२.४॥