पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९४ आर्षेयब्राह्मणम्

(ग्राम. ६.१.२४०.२) इति मन्द्रमन्द्रादिकम् । एते द्वे सामनी बोल्मल बर्हिपे कुल्मलबर्हिःसंबन्धिनी। कुल्मलबहिर्वा एतेन [स्वर्ग लोकमपश्यन] प्रजापति भृमानमगच्छद् (ता. ब्रा. १५. ३. २१) इति हि ब्राह्मणम् ॥९॥

वसिष्ठस्य जनित्रे द्वे ॥ १० ॥

न हि वश्चरमं च न (सा. २४१) इत्यत्र सामद्वयोत्पत्तिः । नहि- वाश्चारमंचना (ग्राम. ६.१. २४१.१) इति मन्द्रद्वितीयादिकं प्रथमम् । नहिवश्वरमम् (ग्राम. ६.१.२४१.२) इति तृतीयचतुर्थादिकं [द्वितीयम्] । एते द्वे वसिष्ठस्य जनित्रे प्रजोत्पादनहेतुभूते । वसिष्टो वा एते पुत्रहतः सामनी अपश्यद् (तां. ब्रा.१९.३.८) इति ब्राह्मणमनुसंधेयम् । प्रत्येकमभिव्यक्तये वचनम् ।। १०॥

दैवातिथं च मैधातिथं वा ॥ ११ ॥

मा चिदन्यद्वि शसत (सा. २४२ ) इत्यत्रैकं साम । माचिदन्यहो- हाइ (ग्राम. ६. १. २४२.१) इति मन्द्रचतुर्थादिकं दैवतिथमथवा मैधाति- थम् । [मेधातिथिर्नाम ऋषिः] तेन दृष्टमित्यर्थः ॥ ११ ॥

इति श्रीसायणाचर्यविरचिते माधवाये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥