पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः अध्यायः (१) ९३

एषां साम्नां मध्ये चतुर्थं चतुष्टसंख्यापूरक साम क्षुल्लककालेयनामकम् । तथा उत्तम सप्तम साम महाक लेयसंज्ञम् ।। ५ ॥

विकल्पेन सर्वेषां कालेयसंज्ञासंबन्धं दर्शयति--

सर्वाणि वैव कालेयानि ॥ ३.१.६ ॥

सर्वाणि सप्त सामानि कालेयानि एव ।। ६ ॥

ऐषिरे द्वे गौशृङ्गे द्वे ॥ ३.१.७ ॥

तगणिरित (सा. २३८) इत्यत्र चत्वारि सामान्युत्पन्नानि । तरणिरीत् (ग्राम. ६. १. २३८.१) इति मन्द्रादिकम् । तराहाउ (ग्राम. ६.१. २३८.२) इति चतुर्थमन्द्रादिकम् । एते उभे ऐपिरे । तणिरित्सिपा । सती (ग्राम. ६.१.२३८.३) इति चतुर्थतृतीयादिकम् । तरणिरित्मिषा । सती (ग्राम. ६.१.२३८.४) इति चतुर्थतृतीयादिकम् । एते द्वे गौशृङ्ग ॥७॥

पृष्ठमेकं शौल्कमेकं जमदग्नेरभीवर्त एकः ॥ ३.१.८ ॥

पिबा सुतस्य रसिनः (सा. २३९) इत्यत्र सामत्रयमुत्पन्नम् । तत्र पिबासुतस्यरसिन [1]: (ग्राम. ६.१.२३९.१) इति मन्द्रचतर्थादिकं [एक] साम पृष्ठनामधेयम् । पियासुतस्यरसिनोहाउ (ग्राम. ६, १.२३९.२) इति मन्द्रादिकमनन्तरम् एकं साम शौल्कम् । पिवासुतस्यरसिनोमन्स्वाहाउ (ग्राम. ६.१.२३९.३) इति मन्द्रादिकं तृतीय साम जमदग्नेग्भीवर्तः ॥८॥

कौल्मलबर्हिषे द्वे ॥३.१.९॥

त्वं ह्येहि (सा. २४०) इत्यत्र सामद्वयमुत्पन्नम् । तुवा हो एहि- चेरवाइ (ग्राम. ६.१.२४०.१) इति मन्द्रचतुर्थादिकम् । त्वयहिचेरावाइ