पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ आर्षेयब्राह्मणम्

आ मन्द्रैरिन्द्र (सा. २४६) इत्यत्र त्रीणि सामानि उत्पन्नानि । आमन्द्रैरा (ग्राम. ६. २. २४६.१) इति मन्द्रादिकं [प्रथमम् ] । आमन्द्र- रिन्द्रहारिभाइः (ग्राम. ६.२.२४६. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । आमन्द्रैरिन्द्र । हारिभीः (ग्राम. ६.२.२४६.३) इति चतुर्थमन्द्रादिक तृतीयम् । एतानि वाम्राणि ॥ ४ ॥

अमेगौङ्गवं गुङ्गोर्वा ॥ ३.२.५॥

न्धमङ्ग प्रशंसिषः (सा. २४७) इत्यत्रक साम । त्वमांगा (ग्राम. ६. २. २४७.१) इति मन्द्रद्वितीयादिकम् अग्नेगौङ्गवम् अथवा गुङ्गोः सामैतत् । गौङ्ग भवत्यग्निरकामयतान्नादः स्यान् इति । स तपो- ऽतप्यत । स एतद् गौङ्गवमपश्यतेनान्नादोऽभवद्यदन्नं विच्या गर्दद्य- दगगूयत्तद् गौङ्गवस्य गौङ्गवत्यम् (ता. ब्रा १४. ३. १९) इति ब्राह्मणम् ॥ ५॥

इन्द्रस्य यशसी द्वे। साध्रं वैनयोरुत्तरम् । साध्रं चैत्र । विरूपस्य समीचीनप्राचीने द्वे। इन्द्रस्य वा यशसी ॥३.२.६॥

त्वमिन्द्र यशा असि (सा. २४८) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र त्वमिन्द्रा (ग्राम. ६ २.२४८.१) इति चतुर्थमन्द्रादिकम् । त्वमाइन्द्रा यशा असाइ (ग्राम. ६.२.२४८.२) इति मन्द्रद्वितीयादिकम् । एते द्वे इन्द्रस्य यशसी । अथवा एनयोः साम्नोरुत्तरं द्वितीय साम साध्रम् । हाउत्वमिन्द्रा (ग्राम. ६.२.२४८.३) इति मन्द्रादिक माघ्रमेव । हाउत्वमिन्द्रा। यशाअसि (ग्राम. ६.२.२४८.४) इति मन्द्रद्वितीयादिकम् । होउत्वमिन्द्रा (ग्राम. ६.२.२४८.५) इति मन्द्रद्वितीयादिकम् । एते द्वे विरूपस्य समीचीनप्राचीननामधेये । अथवा एते सामनी इन्द्रस्य वा यासी ॥ ६॥