पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः


कौत्सं च ॥२.१२.१॥

अतीहि मन्युषाविगम् (सा. २२३) इत्यत्रैकं साम । अतीहिमा (ग्राम. ६.१२. २२३.१) इति मन्द्रादिकं कौत्सम् ॥ १ ॥

काश्यपं चाप्सरसं वा ॥ २.१२.२॥

कदु प्रचेतसे (सा. २२४) इत्यत्रैकं साम । कदुषचेनसे (ग्राम. ६. १२. २२४.१) इति तृतीय चतुर्थादिकं काश्यपम् । अथवा आप्सरमम् [एतन् ]नामधेयम् ॥ २ ॥

बार्हदुक्थे द्वे ॥ २.१२.३ ॥

उकथं च न शस्यमानम् (सा. २२५) इत्यत्रैक साम । उक्थं- चनोहाइ (ग्राम. ६.१२.२२५.१) इति मन्द्रचतुर्थादिकम् । इन्द्र उकथेभिः (सा. २२६) इत्यत्रैक साम । इन्द्र उकथाइ (ग्राम. ६. १२. २२६.१) इति मन्द्रादिकम् । एते ऋगद्वयाश्रिते उभे सामनी बाई दुक्थे बृहदुक्थेन दृष्ट ॥ ३॥

कौत्सानि चैव त्रीणि ॥ २.१२.४ ॥

आ यााप नः सुतम् (सा. २२७) इत्यत्रैकं साम । आयाही (ग्राम. ६.१२.२२७.१) इति चतुर्थमन्द्रादिकम् ! कदा वसो स्तोत्रम् (सा. २२८) इत्यत्र सामद्वयमुत्पन्नम् । ओहोइ । कदापसो (ग्राम. ६.१२. २२८.१) इति द्वितीयक्रुष्टादिकम् । कदाऔहोवा (ग्राम. ६. १२. २२८. २) शति तृतीयद्वितीयादिकम् । एतानि ऋगद्वयाश्रितानि त्रीणि सामानि कौत्सान्येव ॥ ४ ॥