पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ आर्षेयब्राह्मणम्


मित्रावरुणयोश्च संयोजनम् ॥ २.११.६ ॥

आ नो मित्रावरुणा (सा. २२०) इत्यत्रैक साम । आनोमित्रा (प्राम. ६. ११. २२०.१) इति तृतीयचतुर्थादिक मित्रावरुणयोः संयोजनम् एतन्नामधेयम् ॥ ६॥

ऋतुषाम च ॥ २.११.७॥

उदु त्ये सूनवो गिरः (सा. २२१) इत्यत्रैक साम । उदुत्येसूना- वोगिराः (ग्राम. ६.११.२२१. १) इति मन्द्रमन्द्रादिकम् ऋतुषामनाम- धेयम् ॥ ७॥

विष्णोश्च साम ॥ २.११.८ ॥

इदं विष्णुर्वि चक्रमे (सा. २२२) इत्यत्रैकं साम । इदांमे (ग्राम. ७.११. २२२.१) इति मन्द्रमन्द्रादिकं विष्णोः साम एतन्नामधेयम् ॥ ८ ॥

इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये एकादशः खण्डः ॥ ११॥ .