नवमः खण्डः
यामं च ॥२.९.१॥
उ वा मन्दन्तु सोमाः (सा. १९४) इत्यनेक साम । उत्वामन्द- न्तुसोहोमाः (ग्राम. ५. ९.१९४.१) इति मन्द्रचतुर्थादिकं याम यमेन दृष्टम् । चशब्दो भिन्नवाक्यद्योतनार्थः ॥१॥
आङ्गिरसं च हरिश्रीनिधनम् ॥ २.९.२॥
गिर्वणः पाहि नः सुतम् (सा. १९५) इत्यत्रैकं साम । गिर्वण:- पाहिनःसुतम् (ग्राम. ५. ९. १९५.१) इति चतुर्थमन्द्रादिकम् आङ्गिरसम् अङ्गिरःसंबन्धि हरिधीनिधननामकम् । अत्र हरिश्रीरिति हि निधनं गीतम् ।।२
वैरूपं च ॥ २.९.३॥
सदा व इन्द्रः (सा. १९६) इत्यत्रैक साम । सादा। वइन्द्राः (ग्राम. ५.९.१९६.१) इति चतुर्थमन्द्रादिकं वैरूपं विरूपऋषिणा दृष्टम् ॥ ३॥
आसितं च सिन्धुषाम वा ॥ २.९.४ ॥
आ त्वा विशन्त्विन्दवः (सा. १९७) इत्यत्रैक साम । आत्वा- विशन्त्धिन्दावाः (ग्राम. ५.९.१९७.१) इति मन्द्रादिकम् आसितम्, असितो नाम ऋषिः, तेन दृष्टम् । वा यद्वा सिन्धुपामैतत् । पूर्वपदादि- पत्वम् ।। ४ ॥
यमस्यार्कः इन्द्रस्य वा ॥२.९.५॥
इन्द्रमिद्गाथिनो बृहद् (सा. १९८) इत्यत्रैक साम । इन्द्रमिद्गा- थिनोवृहात (ग्राम. ५. ९.१९८.१) इति मन्द्रतृतीयादिकं यमस्यार्कः । अथवा इन्द्रस्यार्कः ॥ ५॥