पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८४ आयब्राह्मणम्


सौमित्रे द्वे ॥ २.९.६॥

इन्द्र इषे ददातु नः (सा. १९९) इत्यत्र सामद्वयोत्पत्तिः । इन्द्र- इषेददातुनः । ओहाइ (प्राम. ५.९.१९९.१) इति चतुर्थमन्द्रादिक- माद्यम् । इन्द्रइषेददातुनाए (ग्राम. ५.९.१९९.२) इति मन्द्रमन्द्रादिकं द्वितीयम् । एते द्वे सौमित्रे सुमित्रो नाम ऋषिः कुत्सः ॥ ६ ॥

इन्द्रस्य चाभयंकरम् ॥ २.९.७॥

इन्द्रो अङ्ग महद्भयम् (सा. २००) इत्यत्रै साम । इन्द्रोअङ्गा (ग्राम. ५.९.२००.१) इति मन्द्रादिकम् इन्द्रस्य चाभयंकरम् ॥ ७ ॥

त्वाष्ट्रीसाम च ॥ २.९.८॥

इमा उ त्वा (सा. २०१) इत्यत्रैक साम । इमाउत्वा (ग्राम. .५९.२०१.१) इति मन्द्रादिकं त्वाष्ट्रीसाम ॥ ८ ॥

पौषं च ॥२.९.९॥

इन्द्रा नु पूषणा (सा. २०२) इत्यत्रैक साम । इन्द्रानुपू (ग्राम. ५.९.२०२.१) मन्द्रादिकं पौषं पूषदेवताकम् ॥ ९॥

इन्द्राण्याः साम ॥२.९.१०॥

न कि इन्द्र त्वदुत्तरम् (साम. २०३) इत्यत्रैक साम । न । क्ये नाकी (ग्राम. ५.९.२०३.१) इति चतुर्थचतुर्थादिकम् इन्द्राण्याः साम । इन्द्रवरुण (पा. ४,१.४९) इति ङीषानुकौ ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये नवमः खण्डः ॥ ९॥