पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ आर्षेयवाह्मणम्


आरुणस्य च वैतहव्यस्य साम सौभरं वा ॥ २.८.६॥

क इमं नाहुषीषु (सा. १९०) इत्यत्रैकं साम । कइमम् (ग्राम. ५.८.१९०.१) इति चतुर्थमन्द्रादिकम् आरुणस्य च वैतहव्यस्य साम । वा अथवा सौभरम् ॥ ६ ॥

सौभरं चैव ॥ २.८.७ ॥

आ याहि सुषुमा हि ते (सा. १९१ ) इत्यत्रैकं साम । आयाहिमू (ग्राम. ५. ८. १९१.१) इति मन्द्रादिकं सौभरमेव ।। ७ ॥

पाष्ठौहे द्वे ॥ ८॥

महि त्रीणाम् (सा. १९२) इत्यत्र सामद्वयम् । माहाइत्राइणाम् (ग्राम. ५.८.१९२.१) इति तृतीयद्वितीयादिकं प्रथमम् । महीत्रीणामवर- स्तूए (ग्राम. ५.८.१९२.२) इति मन्द्रादिकं द्वितीयम् । एते द्वे पाष्ठौहे पाष्ठवाडाङ्गिरसः तेन दृष्टे । दृष्टं साम (पा. २.३.४७) इत्यर्थे अणि भसंज्ञायां वा रूपम् ॥ ८ ॥

साकमश्वं च धुरां वा साम ॥२.८.९॥

त्वावतः (सा. १९३) इत्यत्रैकं साम । त्वावतो (ग्राम. ५. ८.१९३. १) इति क्रुष्टद्वितीयादिकं साकमश्वम् । वा अथवा तत्साम धुरां सामनामधेयम् तथा च ब्राह्मणम् - साकमश्वं भवति । यदेव साकमश्वस्य ब्राह्मणं भवति तदु धुरां सामेत्याहुः (तां. ब्रा. १४.९.१७) इति ॥ ९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये द्वितीयाध्याये अष्टमः खण्डः ॥ ४ ॥