पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः


औपगवे द्वे ॥२.४.१॥

अपादु शिप्यन्धसः (सा. १४५) इत्यत्र सामद्वयमुत्पन्नम् । अपा- दुशी (ग्राम. ४.४.१४५.१) इति मन्दस्वरादिकं प्रथमम् । अपादृशि- प्रियंधसाः (ग्राम. ४. ४.१४५. २) इति मन्द्रद्वितीयादिकं द्वितीयम् । ते द्वे औपगवे उपगुना दृष्टे ॥ १॥

अत्र ऋषिनामविकल्पान् दर्शयति -

सौश्रवसे वाथमथे वा मथाथे वा सौमित्रे वा शैखिण्डिने वा ॥२.४.२॥

अथवा सौश्रवसनामके एते सामनी । सौश्रवसं भवति । उपगुर्वे सौश्रवसः (ता. बा. १५. ६. ७-८) इति ब्राह्मणम् । यद्वा अथमथनामके सौमित्रे वा शैखिण्डिननामधेये वा ॥ २ ॥

त्वाष्ट्रीसाम ॥ २.४.३ ॥

इमा उ त्वा पुरूवसः (सा. १४६) इत्यत्रैक सामोत्पन्नम् । इमा- उत्वा (ग्राम. ४. ४. १४६.१) इति मन्द्रा त्वाष्ट्रीसामनामकम् । त्वाष्ट्रीसाम भवति । इन्द्र वा अक्ष्यामयिण भूतानि नास्वापयन् । (तां ब्रा. १२. ५.१८-१९) इत्यादि ब्राह्मणमनुसंधेयम् ॥ ३ ॥

त्वष्टुरातिथ्ये द्वे ॥ २.४.४॥

अत्राह गोगमन्वत (सा. १४७) इत्यत्र सामद्वयोत्पत्तिः । आत्रा (ग्राम. ४. ४.१४७.१) इति चतुर्थमन्द्रादिकम् । हावात्रा (ग्राम. ४. ४.