पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ आर्षेयब्राह्मणम्

१४७. २) इति चतुर्थमन्द्रादिकम् । ते द्वे त्वष्टुरातिथ्यनाम- धेये ॥ ४॥

पौषे द्वे ॥ २.४.५॥

यदिन्द्रो अन यत् (सा. १४८) इत्यत्र सामद्वयोत्पत्तिः । यदिन्द्रोया (ग्राम. ४. ४. १४८.१) इति मन्द्रादिकम् । यदिन्द्रो अनयद्रिताए (ग्राम, ४.४.१४८.२) हति मन्द्रादिकम् । एते द्वे पोपे पौषनामके ॥ ५ ॥

श्यावाश्वे द्वे ॥ २.४.६॥

गौधयति (सा. १४९) इत्यत्र सामद्वयम् । गौड़यांए (ग्राम. ४. ४. १४९.१) इति मन्द्रमन्द्रादिकं प्रथमम् । गौर्द्धयति मरुतामे (ग्राम. ४. ४.१४९. २) इति मन्दमन्द्रादिकं द्वितीयम् । ते द्वे श्यावाश्ये एतन्नामके ॥ ६॥

प्रजापतेः सुतंरयिष्ठीये द्वे । सहोरयिष्ठीये वा ॥ २.४.७ ॥

उप नो हरिभिः (सा. १५०) इत्यत्र सामद्वयोत्पत्तिः । उपनो हरिभिस्सुतोवा (ग्राम. ४. ४. १५०. १) इति द्वितीयक्रुष्टादिकं प्रथमम् । उपनो हाहोहा (ग्राम. ४. ४.१५०.२) इति मन्द्रचतुर्थादिक द्वितीयम् । एते द्वे सुतंरयिष्ठशब्दयुक्ते । एतन्नामके । द्वितीयसामान्ते सुतशयिष्ठा इति निधनत्वेन साम्नि पठितत्वात् । वा अथवा सहोगयिष्ठीये एतन्नामधेये ॥ ७ ॥