पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः अध्यायः (३) ६५

[द्वितीयम् ते द्वे भरद्वाजस्य मौक्षे एतन्नामधेये । अथवा अनयोः साम्नोः पूर्व साम दक्षणिधनं दक्षाया इत्यस्य निधनम् । अत्र ब्राह्मणम् प्रजापतिः प्रजा असृजत इत्यादि । तास्तेन माम्ना दक्षायेत्योजो वीर्य- मदधात् (ता. ब्रा. १४. ५. १३) इति ।। ७ ॥

भारद्वजानि त्रीणि । आर्षभानि वा सैन्धुक्षितानि वा ॥२.३.८॥

क्वस्य वृषभो युवा (सा. १४२) इत्यस्यां सामत्रयमुत्पन्नम् । कूवस्यवार्षभोयुवा (ग्राम. ४. ३. १४२. १) इति क्रुष्टद्वितीयादिकं [ प्रथमम् ] | कुवाकुवा (ग्राम. ४. ३. १४२.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । ऐहीयेही । क्वस्यवृषभोयुवा (ग्राम. ४. ३. १४२. ३) इति मन्द्रादिकं तृतीयम् । एतानि त्रीणि सामानि भारद्वाजानि भरद्वाजेन दृष्टानि । अथवा आर्षभानि । ऋषभो नाम ऋषिः तस्य स्वभूतानि । यद्वा सैन्धुक्षितानि सिन्धुक्षिसं- बन्धीनि ।। ८ ॥

शाकत्यसामनी द्वे ॥२.३.९॥

उपहरे गिरीणाम् (सा. १४३) इति अत्र द्वे सामनी उत्पन्ने । उपहराइ (ग्राम. ४. ३. १४३. १) इति क्रुष्टद्वितीयादिकं प्रथमम् । इदा- मीदाम् (ग्राम. ४. ३. १४३. २) इति तृतीयद्वितीयादिक द्वितीयम् । एते द्वे शाकत्यसामनी । शक्तिर्नाम वसिष्ठम्यापत्यम् ऋषिः । तेन दृष्टे ॥ ९॥

वार्षंधरे द्वे । कुत्सस्य प्रस्तोको द्वौ ॥ २.३.१० ॥

प्र संम्राजं चर्षणीनाम् (सा. १४४) इत्यस्यां चत्वारि सामान्युत्-