पृष्ठम्:आर्षेयब्राह्मणम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ आर्षेयब्राह्मणम्

महाद (ग्राम. ४. ३. १३८. ४) इति मन्द्रमन्द्रादिकं तुरीयम् । एते द्वे हाविष्कृते । हविकृदङ्गिरा ऋषिः । तेन दृष्टे । हविष्मांश्च चै हविष्कृच्चा- ङ्गिरमावास्ताम् (तां ब्रा. ११.१०.१०) इति ब्राह्मणम् । अत्र ऋषिद्योतनाय द्वितीयसामान्ते ओहोवा हविष्मते इति हि निधनं पठितम् । पश्चात्तृतीय- सामान्ते औहोवा हविष्कृते इति [च] हि निधनं पठितम् ।। ४ ।।

काक्षीवतं च ॥ २.३.५॥

सोमानां स्वरणं कृणुहि (सा. १३९) इत्यस्यामेकं साम । सोमानाश्स्वरणाम् (ग्राम. १.३.१३९.१) इति मन्द्रद्वितीयादिकं काक्षीवतम् । कक्षीवान्नाम ऋषिः । तेन दृष्टम् । अस्य साम्नः कक्षीवत्संबन्धित्वं ब्राह्मणे श्रूयते – काक्षीवतं भवति । कक्षीवान् वा एतेनौशिजः प्रजापति भूमानमगच्छत् (ता. बा. १४. ११.१६-१७) इति ।। ५ ।।

औषसं च ॥ २.३.६ ॥

बोधन्मनाः (सा. १४०) इत्यत्रकं साम । बोधन्मनाः (ग्राम. ४. ३. १४०. १) इति मन्द्रादिकम् औषसम् उषसः संबन्धि ॥ ६ ॥ भरद्वाजस्य मोक्षे द्वे । दक्षणिधनं वैनयोः पूर्वम् ॥७॥ अद्य नो देव सवितः (सा. १४१) इत्यत्र सामद्वयोत्पत्तिः । अद्यनोदेवसवितः । औहोवा (ग्राम. ४. ३. १४१.१) इति मन्द्रचतुर्थादिक प्रथमम् । अद्या । नोदेवमा (ग्राम. ४. ३. १४१.२) इति तृतीयद्वितीयादिक