पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ आर्षेयब्राह्मणम्

दधन्वेवायदीमनु (ग्राम. ३. १०. ९४. १) इति चतुर्थमन्द्रादिकं त्वाष्ट्रीसाम । त्वाष्ट्री नाम काचिद्देवता ॥ ४ ॥

अगस्त्यस्य च राक्षोघ्नम् ॥ १.११.५॥

प्रत्यग्ने हरसा हरः (सा. ९५.) इत्यस्.ामेकं साम । प्रत्यग्ने (ग्राम. ३. १०. ९५. १) इति तृतीयचतुर्थादिकम् अगस्त्यस्य ऋषेः संबन्धि राक्षोनं रक्षोहननसमर्थ साम ॥ ५ ॥

मानवं च ॥ १.११.६॥

त्वग्ने वमूरिह (सा. ९६) इत्यस्लामेकम् । स्व ग्ने । त्वमनाइ (ग्राम. ३. १०. ९६. १) इति चतुर्थमन्द्रादिक मानवं मनुनाम्ना ऋषिणा दृष्टम् । चारो वाक्यभेदद्योतनार्थः ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्र.शे आयब्राह्मणे प्रथमाध्याये एवादशः खण्डः ॥ ११ ॥