पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः


तौदे द्वे दैर्घतमसानि त्रीणि । सर्वाणि वा तौदानि सर्वाणि वा दैर्घतमसानि ॥ १.१२.१॥

पुरु त्वा दाशिवायोचे (सा. ९७) इत्यस्याम् ऋचि पञ्च सामान्युत्पन्नानि । तत्र पुरु । त्वादाशिवायोचाये (ग्राम. ३. ११ ९७. १) इति मन्द्रचतुर्थादिकं प्रथमम् । पुरुत्वादाशिवाइवो। चे (ग्राम. ३.११. ९७.२) इति मन्द्रचतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे तौदे तौदनामनी । पुरुत्वादाशिवाडो। चे (ग्राम. ३. ११. ९७. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । पुरुत्वादाशिवाडोचे (ग्राम. ३. ११. ९७. ४) इति मन्द्रद्वितीयतृतीयादिकं तुरीयम् । पुरुत्वादाशिवाकोचेहाउ (ग्राम. ३. ११. ९७. ५) इति द्वितीयक्रुष्टादिकं पञ्चमम् । एतानि त्रीणि दैर्घतमसानि दीर्घतमसः स्वभूतानि । ऋषिद्वयस्यापि सर्वैः सह संबन्धं दर्शयति – सर्वाणि वा तौदानि सर्वाणि वा दैर्घतमसानि । वा अथवा सर्वाणि पञ्च सामानि तौदानि सर्वाणि दैर्घतमसानि वा ॥१॥

श्यावाश्वस्य प्रहितौ द्वौ ॥ १.१२.२ ॥

प्र होने पूयं वचः (सा. ९८) इत्यत्र सामद्वयमुत्पन्नम् । प्रहोत्रेपू (ग्राम. ३. ११. ९८. १) इति मन्द्रस्वरादिकमाद्यम् । प्रहोत्राइ पूर्वी (वि ?) यं वचाः (ग्राम. ३. ११. ९८. २) इति मन्द्रद्वितीयादिकं