पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः खण्डः


बार्हस्पत्यं च ॥१.११.१॥

सोमं राजानं वरुणम् (सा. ९१) इत्यत्र सामैकम् । सोमꣳ राजानं वरुणाम् (ग्राम. ३. १०. ९१. १) इति चतुर्थमन्द्रस्वरादिकम् । चकारो वाक्यभेदार्थः ॥१॥

आरूढवच्चाङ्गिरसं यामं वा ॥१.११.२॥

इत एत उदारुहन् (सा. ९२) इत्यत्र सामैकम् । आरोहान् (ग्राम. ३. १०. ९२. १) इति क्रुष्टतृतीयद्वितीयादिकम् आरूढशब्दयुक्तम् आङ्गिरसम् अङ्गिरसः स्वभूतं साम । उदारुहन्निति साम्नि विद्यमानत्वात् । वा एतत् साम यामं यमेन दृष्टम् । अथवा याममग्निदेवत्यम् । वेति सामनामार्थे । प्रथमे आग्नेये काण्डे पठितत्वात् ॥ २ ॥

आसिते द्वे ॥ १.११.३॥

राये अग्ने महे त्वा (सा. ९३) इत्यस्यां सामद्वयमुत्पन्नम् । राये अग्नेमहाइ (ग्राम. ३. १०. ९३. १) इति मन्द्रचतुर्थादिकं प्रथमम् । रायायाग्नेमहेत्वाहाउ (ग्राम. ३. १०. ९३. २) इति द्वितीयक्रुष्टादिकं द्वितीयम् । ते द्वे आसिते प्रकाशमाने एतन्नामके सामनी भवतः ॥ ३ ॥

त्वाष्ट्रीसाम च ॥ १.११.४॥

दधन्वे वा यदीमनु (सा. ९४.) इत्यस्यां सामैकमुत्पन्नम् ।