पृष्ठम्:आर्षेयब्राह्मणम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ आर्षेयब्राह्मणम्

ऋषेः स्वयोनिनामकं साम । वा अथवा इन्द्रस्य स्वभूतम् इन्द्रियनामक साम । वा अथवा इन्द्रस्य प्रियं नाम । वाशब्दः पूर्वेणापि संबद्धः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे प्रथमाध्याये दशमः खण्डः ॥ १० ॥