नवमः खण्डः
श्येनश्च ( स्य ?) श्यैनं वा श्यैतं वा शयनं वा शायनं वा प्रजापतेर्वा दीर्घायुष्यं वा ॥१.९.१॥
अबोध्यग्निः समिधा (सा. ७३) इत्यत्र सामैकम् । अबोधिया (ग्राम. २. ८. ७३. १) इति चतुर्थादिकम् । श्येनः शंसनीयगतिः अग्निः तस्य स्वभूतम् । विकल्पो वक्ष्यमाणापेक्षयैव कृतो वा । अथवा श्यैननामधेयं वा [ श्यास्त्या (उ. २१३) इतीनच् ] प्रत्ययः । तस्येदम् (पा. ४. ३. १२०) इत्यर्थेऽञ्प्रत्ययश्च । यज्ञद्वेषिणां नाशकरमित्यर्थः । शयनं वा शायनं वा बाह्यज्ञानं तद्विविक्तान् (!) करोतीत्यस्यैतन्नाम। एकस्मिन्नेव साम्नि विधाय गातव्यमिति नामविकल्पः कृतः ॥ १॥
वासुक्रं च ॥ १.९.२ ॥
प्र भूर्जयन्तं महां विपोधाम् (सा. ७४) इत्यत्रैकं सामोत्पन्नम् । प्रभूर्जयंताम् (ग्राम. २. ८. ७४. १) इति चतुर्थमन्द्रादिकं साम । वासुकं वसुक्रो नाम ऋषिः, तेन दृष्टम् । सर्वत्र चकारो वाक्यभेदद्योतकः ॥ २॥
पौषं च ॥ १.९.३ ॥
शुक्रं ते अन्यद्यजतं ते अन्यद् (सा. ७५) इत्यत्रैकं सामोत्पन्नम् । शुक्रं ते अन्यद् (ग्राम. २. ८. ७५.१) इति मन्द्रचतुर्थादिकं साम । पौषं पूषदेवताकम् ॥ ३॥