पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ आयब्राह्मणम्

सर्वत्र वाशब्दो विकल्पवाची । अथवा एते सामनी वसिष्ठस्य ऋषेः स्वभूते । अथवा प्रजापतेः स्वीये । राशिमराये एतत्संज्ञके भवतः । पूर्वस्य सानो राशीति नाम अपरस्य मरायमिति विद्यमानत्वात् । आढ्यादि (पा.३.२.५६) सूत्रेण स्फातेरप्रत्ययः । प्रकृतेश्च तदृह्यम् इति वचनाद् तदुपपदात् करोतेः ख्युन् प्रत्ययः । च्यावने वा। च्यवनो नाम ऋषिः तेन दृष्टे वा । शैखण्डिने वा । शिखण्डिनः स्वभूते वा । ऐन्वके वा । इन्वकाख्यऋषिणा दृष्टे । तेषामुपयोगः प्रयोगकारेण द्रष्टव्यः ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे प्रथमाध्याये अष्टमः खण्डः ॥