पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ आर्षेयब्राह्मणम्


कौत्सं च ॥ १.९.४ ॥

इडामग्ने पुरुदंससं सनि गोः (सा.७६) इत्यत्रैक साम । इडामनाइ (ग्राम. २.८.७६.१) इति मन्द्रस्वरादिक कौत्सं कुत्सेन ऋषिणा दृष्टम् ॥ ४ ॥

काश्यपे द्वे ॥ १.९.५॥ ।

प्र होता जातो महान् (सा. ७७) इत्यत्र सांमद्वयमुत्पन्नम् । प्रहोताजाताः (ग्राम. २. ८. ७७. १) इति चतुर्थमन्द्रादिकमाद्यम् । प्रहोताजातः । उहुवाहाइ (ग्राम. २. ८. ७७. २) इति चतुर्थमन्द्रादिक द्वितीयम् । ते उभे कश्यपस्य म्वभूते सामनी ॥ ५ ॥

घृताचेराङ्गिरसस्य साम ॥ १.९.६ ॥

स सम्राजमसुरस्य प्रशस्तम् (सा. ७८) इत्यत्र समिकम् । प्रसम्राजाम् (ग्राम. २. ८. ७८. १) इति मन्द्रादिकं आङ्गिरसस्य अङ्गिरःपुत्रस्य घृताचेरेतन्नामधेयस्य ऋषेः साम ॥ ६ ॥

भरद्वाजस्य प्रासाहम् ॥ १.९.७ ॥

अरण्योर्निहितो जातवेदाः (सा. ७९) इत्यत्रैक सामोत्पन्नम् । अरण्योः (ग्राम. २. ८. ७९. १) मन्द्रादिकं भरद्वाजस्य म्वभूतं प्रासाहं शक्त्यभिभवनसमर्थम् एतन्नामक साम ॥ ७ ॥

अग्नेर्वैश्वानरस्य राक्षोघ्नमत्रेर्वा ॥ १.९.८ ॥

सनादग्ने मृणसि यातुधानान् (सा. ८०) इत्यत्रैक सामोत्पन्नम् । अहा। वोहा। [वो हा।] सनादग्नाइ (ग्राम. २.८.८०.१) इति तृतीयद्वितीयस्वरादिकं साम वैश्वानराख्यस्यानेः स्वभूतं राक्षोभं रक्षोहननसाधनमेतन्नामधेयम् । एतदैवतं नाम वा। प्रथमा (अथवा !) अत्रे तन्नाम कस्य ऋषेः राक्षोनसाम ॥८॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मण प्रथमाध्यायस्य नवमः खण्डः ॥ ९॥