पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (७) ३१


ऐतवाद्ध्र्यं च ॥ १.७.५॥

प्र वो यहूं पुरूणाम् (५९) इत्यत्रैकम् साम जातम् । प्रवाः (ग्राम. २. ६. ५९.१) इति मन्द्रचतुर्थादिकम् ऐतवाद्ध्र्यनामकम् । [ऐत-] वध्र्दर्नाम ऋषिः, तेन दृष्टम् ॥ ५॥

मनसश्च दोहः ॥ १.७.६॥

अयमग्निः सुवीर्यस्य (सा. ६०) इत्यत्रैकम् साम। अयमग्निः सुवीर्यस्यहाउ (ग्राम. २. ६. ६०.१) मन्द्रादिकं मनसश्च दोह एतन्नामकम् ॥ ६ ॥

समन्तानि त्रीण्यग्नेरेकं वसिष्ठस्य वा वरुणस्य द्वे ॥ १.७.७॥

त्वमग्ने गृहपतिर् (सा. ६१) इत्यस्यामुत्पन्नानि त्रीणि सामानि समन्तनामधेयानि । अत्रैव ऋषिदेवताभेदेन विविच्य नामत्रयं दर्शयति - अग्नेरेकं वसिष्ठस्य वा वरुणस्य द्वे इति । त्वमग्नेगृहपताइः (ग्राम. २. ६. ६१ १) इति चतुर्थमन्द्रादिकं प्रथममग्नेः स्वभूतमेतद्देवतानिबन्धनं नाम । अथवा वसिष्ठस्य संबन्धि । एतद्दृष्टनिबन्धनम् । त्वमग्नेगृहापतीः (ग्राम. २.६.६१.२) इति चतुर्थमन्द्रादिकं द्वितीयं वरुणस्य संबन्धि । त्वमाग्नेगृहापतीः (ग्राम. २. ६. ६१. ३) इति मन्द्रद्वितीयतृतीयादिकं तृतीयम् साम ॥ ७॥

वाम्रस्य च वैखानसस्य सामाञ्जिगस्य वा दानवस्य ॥ १.७.८ ॥

सखायस्त्वा ववृमहे (सा. ६२) इत्यत्रैकं साम । सखायस्त्वा औहोहोहाइ (ग्राम. २. ६. ६२. १) इति मन्द्रचतुर्थादिकं वैखानसस्य