पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः खण्डः


अग्नेश्च द्रविणम् ॥१.७.१॥

देवो वो द्रविणोदाः (सा. ५५) इत्यत्रैकं सामोत्पन्नम् । देवोवोद्रविणोदाः (ग्राम. २. ६. ५५. १) इति मन्द्रचतुर्थादिकम् अग्नेः स्वभूतं द्रविणशब्दोपेतमेतन्नामकं साम ॥१॥

बार्हस्पत्यं च ॥ १.७.२॥

प्रैतु ब्रह्मणस्पतिः (सा. ५६) इत्यत्रैकं साम । प्रैतुब्रह्मणस्पतीः (ग्राम. २. ६. ५६. १) इति मन्द्रद्वितीयादिकं बार्हस्पत्यम् । ब्रह्मणस्पतिरिति लिङ्गात् ॥ २॥

वसिष्ठस्य च वीङ्कम् ॥ १.७.३ ॥

ऊर्ध्व ऊषु ण ऊतये (सा. ५७) इत्यत्रैकं सामोत्पन्नम् । ऊर्ध्वऊषुणाऊतायाइ (ग्राम. २. ६. ५७. १) इति द्वितीयतृतीयादिकं वसिष्ठस्य ऋषेः स्वभूतं वीङ्काम् एतन्नामधेयम् ॥ ३ ॥

विष्पर्धसश्वाङ्गिरसस्य साम ॥ १.७.४ ॥

प्र यो राये निनीप्रति (सा. ५८) इत्यस्यामेकं साम जातम् । प्रयोरायाइनिनीषताइ (ग्राम. २. ६. ५८. १) इति चतुर्थमन्द्रादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य विष्पर्धसश्च एतन्नामकस्य ऋषेः संबन्धि ॥ ४ ॥