पृष्ठम्:आर्षेयब्राह्मणम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आषेयब्राह्मणम्

[विखनसपुत्रस्य] वाम्रस्य । वाम्रो नाम ऋषिः तस्य ऋषेः संबन्धि [साम] । अत्र ऋषिविकल्पमाह - आञि्जगस्य वा दानवस्येति । अथवा दानवस्य आञि्जगस्य ऋषेः साम ॥ ८ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे प्रथमाध्याये सप्तमः खण्डः ॥ ८ ॥