पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५१ षष्ठाध्याये तृतीयपर्व (४)

आइही इत्यादि इन्नरो (आ. गा. ४. ४. २०६) इति द्वितीयक्रुष्टादिकम् । एते द्वे इन्द्रस्य राजनरौहिणे । पूर्व राजनम् उत्तरं रौहिणम् ॥ ८ ॥

अत्र विकल्पं दर्शयति -

रौहिणे । वैकर्षेर्वा राजनं धातु(तू) रौहिणम् ॥ ६.३.४.९॥

अथवा एते द्वे सामनी रौहिणे एतन्नामधेये । अथवा पूर्वम् एकः संबन्धि राजनम् । उत्तरं धातु ('तुः) स्वभूतं रौहिणम् ॥ ९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि चतुर्थः खण्डः ॥ ४ ॥